Monday, December 31, 2018

जीवे दया नाटके जीवपूर्णमनोरथ-नामकः पञ्चमोऽङ्कः


(5)
पञ्चमोऽङ्कः
जीवपूर्णमनोरथम्

(सनातनगोस्वामी कृष्णनामानि कीर्तयन् नन्दघाटनामकग्रामं प्रविशति ।)

सनातनः नन्दघाटमागतोस्मि । अत्र वरुणेन गोपराजनन्दनस्य अपहरणं संवृत्तम् । मध्याह्नसमय आपतितः । कुत्र भिक्षां करिष्यामि ? ग्रामे गत्वा पश्यामि । व्रजवासिनीनां कृपया मधुकरीं कृत्वा भजनं कर्तुं शक्नोमि । ताः सर्वा राधासखीस्वरूपा एव । व्रजवासिनीनां करुणया किञ्चिदश्नीयाम् ।

(गृहपार्श्वे स्थित्वा स गातुं आरभते ।)

कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण हे !
कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण हे !

सनातनः मातः ! भिक्षां देहि । अभुक्तोस्मि । कृपां कुरु ।

स्त्री बाबा ! आगच्छ । दास्यामि गृहाण । रोटिकां गृहाण । व्यञ्जनमपि दास्ये ? तिष्ठ शीघ्रमायास्ये ।

सनातनः मातः ! एकैव रोटिका दीयताम् । अहम् एकस्मात् गृहाद् अधिकम् न गृह्नामि । मम व्रतम् इदम् ।

स्त्री त्वद्विधो एको युवको वैरागी अमुष्यां गुहायां वसति । स तीव्रवैराग्यम् अभ्यस्यति । किञ्चिन्मात्रं गोधूमचूर्णं जलेन मिश्रितं पाकं विना खादति । रन्धनमपि न कुरुते ।

सनातनः कथम् ? कः स युवकः सन्न्यासी ?

स्त्री स कतिचित् दिनेभ्यः पूर्वं अत्र आगतवान् । तस्य परिचयं न जानामि ।

सनातनः (स्वगतम्) असौ अस्माकं प्रियो जीवको भवितुमर्हति। (प्रकाशम्) गच्छामि द्रष्टुम्।

(परिक्रामति | जीवगोस्वामिनं दृष्ट्वा) हाय हाय ! कृशकायोऽयं युवको जीव एव। (तं प्रति धावति आलिङ्गति च) हे 
जीव ! तात ! तव शरीरमतिक्षीणम् अभवत्। त्वं कथं जीवसि ?

(जीवगोस्वामी तं प्रणमति)

वैराग्ययुग्भक्तिरसं प्रयत्नैरपाययन्मामनभीप्सुमन्धम् ।
कृपाम्बुधिर्यः परदुःखदुःखी सनातनं तं प्रभुमाश्रयामि ॥

सनातनः -- वत्स ! शान्तो भव । मया सह चल । रूपस्तवागमनमपेक्षते । स त्वां क्षमते । वैष्णवाचारं जगति शिक्षयितुं एतं लीलामभिनयमकरोत् । त्वं तस्य पार्श्वे गत्वा तं सेवस्व । सर्वं मङ्गलं भविष्यति ।

(हठात् श्रीरूप आविर्भवति) हे जीव ! अहं क्षणमपि त्वां न व्यस्मरम् । अहं निरन्तरं तव पार्श्वे अतिष्ठम् । अद्यैव वृन्दावनमागच्छ । तत्र स्थित्वा भक्तिमयपुस्तकानि रचयिष्यसि ।

श्रीजीवः इदानीमेव भागवतसन्दर्भनामग्रन्थस्य बीजं मम मनसि आविर्भूतम् । तस्मिन् सम्बन्धाभिधेयप्रयोजनतत्त्वानि भागवतशास्त्रप्रमाणभूतैः श्लोकैः सज्जीकरिष्यते । तत्र भागवतस्य यथार्थसिद्धान्तं सर्वेभ्य्ः सुस्पष्टं भविष्यति ।

रूपसनातनौ त्वं कलियुगपावनावतारस्य श्रीकृष्णचैतन्यमहाप्रभोः, आवयोश्च कृपापात्रम् । तव पाण्डित्यं च प्रेमभक्तिश्च सर्वदा उज्ज्वला वर्तेत । किं अन्यं कमपि वरं याचिष्यसे ?

श्रीजीवः आं । वृन्दावने स्थिताः सर्वे भक्ताः श्रीश्रीराधामाधवयोः कृपां प्राप्नुवन्तु । यथा भवान् स्वयं व्यलिखत् श्रीललितमाधवनाटके भरतवाक्यम्

चिराद् आशामात्रं त्वयि विरचयन्तः स्थिरधियो
विदध्युर्ये वासं मधुरिमगभीरे मधुपुरे ।
दधानः कैशोरे वयसि सखितां गोकुलपतेः
प्रपद्येथास्तेषां परिचयमवश्यं नयनयोः ॥

(राधे गोविन्द इति नामानि कीर्तयन्तः प्रस्थिताः सर्वे ।)

इति जीवे दया नाटके जीवपूर्णमनोरथ-नामकः पञ्चमोऽङ्कः समाप्तः ।

सम्पूर्णमिदं जीवेदया नाटकम् ।

जीवे दया नाटके -- चतुर्थोऽङ्कः -- सनातनरूपयोः संवादः


(4)
चतुर्थोऽङ्कः
सनातनरूपयोः संवादः

सनातनगोस्वामी (श्रीरूपस्य कुटीरमुपक्रम्य उच्चैराह्वयन् ) – अत्र कोऽप्यस्ति वा ?

रूपः (जपमालां हस्ते धृत्वा कुटिरात् निष्काश्य) – भोः प्रभो ! सर्वं कुशलं भवति किम्? कुत आगतोऽसि । किंप्रयोजनमत्र भवदागमनम्?

सनातनः गोवर्धनादागतोऽस्मि । त्वां च अनुपमतनयं जीवमपि द्रष्टुमैच्छम्।

रूपः जीवो नास्त्यत्र ।

सनातनः कथं तत् ? स भक्तिरसामृतसिन्धोः संशोधनकार्ये त्वया नियुक्त आसीत्, न वा ?

रूपः अथ किम् । तस्य अनुपस्थितौ सिन्धुः स्थगितोऽभवत् । ऊर्मिमात्रं न स्पन्दते ।

सनातनः ततो लिखनं स्थगितम् ?

रूपः अथ किम् । जीवं विना मम लिखनमपि निर्जीवमभवत् ।

सनातनः एतदर्थं त्वं समवसन्न इव दृश्यसे | अहमपि तं न दृष्ट्वा दुःखी अभवम् । कथं जीवो नात्र ?

रूपः शिक्षादण्डनाय तं निरवासयम्। स वैष्णवसदाचारे अनभिज्ञः । स वैष्णवोचितदैन्यं न जानाति । इदानीमपि तस्य पण्डिताभिमानः प्रबलतरो वर्तते । किन्तु तं विना मम व्रजवासः शून्य इवास्ति।

सनातनः आहा ! सोऽपि अत्यन्तदुःखी भविष्यति। परदुःखदुःखित्वं त्वयि न वर्तते ?

रूपः तस्य विच्छेददुःखमहमपि सोढुं न शक्नोमि ।

सनातनः चैतन्यस्य धर्मो जीवे दया इति ख्यातः । तदर्थं आवां पुस्तकानि रचयावः । अस्मिन् कार्ये जीवस्य भूमिका अत्यन्त गुरुत्वपूर्णा। तं विना तत् कार्यस्य पूर्णता न सम्भविष्यति। अत एव सर्वजीवानां दयार्थं आवयोर्जीवको दयनीयः केवलं जीवदयाद्वारेण जीवे दया सम्भविष्यति । तं ग्रन्थरचना संशोधनादिकार्ये नियोजय सर्वभूतेषु भवान् दयावान् ।

रूपः प्रभो ! भवान् युक्तं वदति। इदानीं किं करिष्ये ?  स कुत्रागच्छत् ? तत् केनापि न ज्ञातम्। कुत्र गत्वा स प्राप्यते ?

सनातनः राधाकृष्णचरणयोः प्रार्थयामि। अस्माकं प्रियः भ्रातुष्पुत्रः चैतन्यमहाप्रभोः प्रेमधर्मं प्रचारयितुं अवतीर्णः। सोऽवश्यं मार्गितव्यः हा व्रजदेवि राधे  अस्माकं भ्रातुष्पुत्रः तव प्रियसेवको भवति। कृपया तस्य दिशं दर्शय।  (इति निर्गच्छति।)

इति जीवे दया नाटके सनातनरूपयोः संवादःइति चतुर्थोऽङ्कः समाप्तः ।

Wednesday, December 19, 2018

जीवे दया नाटकम् - तृतीयोऽङ्कः - दिग्विजयविजिगीषा


(3)
तृतीयोऽङ्कः
दिग्विजयविजिगीषा

(प्रविशति पीनकायः कश्चिद्ब्राह्मणः)

ब्राह्मणः अहं रूपनारायणः चतुर्वेदी । मत्सदृशः पण्डितः भारतवर्षे कुत्रापि नास्ति ।  सर्वत्र वेदवित्-श्रेष्ठानां समक्षे पराजयपत्रं गृहीत्वा दिग्विजयीति ख्यातिं प्राप्तवान् । (समन्तादवलोक्य) इदानीं वृन्दावनम् आगतोऽस्मि, यतः अत्र कश्चित् विद्वत्तमः रूपगोस्वामीनामकः साधुपुरुषो वसतीति मया श्रुतम्। विचारवितण्डे निज्योज्य तमपि पराजित्य तस्मात् पत्रं प्राप्स्यामि । (परिक्रमति)

(श्रीजीववीज्यमानं श्रीरूपगोस्वामिनां दूरतो दृष्ट्वा) – असौ एव स भवेत्। अहमुपसर्पामि । अहं रूपनारायणः चतुर्वेदी । मत्सदृशः पण्डितः भारतवर्षे कुत्रापि नास्ति ।  सर्वत्र वेदवित्-श्रेष्ठानां समक्षे पराजयपत्रं गृहीत्वा दिग्विजयीति ख्यातिं प्राप्तवान् । भवत्सकाशे पराजयपत्रं ग्रहीतुमिच्छामि । तर्कयुद्धे अस्माभिः सह शास्त्रार्थस्य यथायथं सिद्धान्तं अहं प्रतिष्ठापितुं प्रवृत्तोऽस्मि । सर्वमतान् पराजित्सु अहं स्वमतं स्थापयिष्यामि ।

भोः वैष्णवप्रधानख्यातनामा श्रीरूपगोस्वामिन् प्रणामाः । अहं भवन्तं तर्कयुद्धे तिरस्कृत्य भवतः स्वहस्तलिखितं पराजयपत्रं ग्रहीतुं उपनीतोऽस्मि ।

रूपः भूसुरवर ! तत्रभवतां पाद्पद्मे सविनयं प्रणामं स्वीकुरुध्वम् । वयं मूर्खाः किं जानीमः? अस्मासु भवतः शिष्यो भवितुं योग्यता नास्ति ।

पण्डितः भवता रसामृतसिन्धुनामको लक्षणग्रन्थो रच्यमानो भवति इत्यहं श्रुतवान् ।

रूपः अथ किम् ।

पण्डितः पाण्डुलिपिं द्रक्ष्ये, कियदंशं पठितुमाज्ञापयतु । (किञ्चित् पठित्वा) हंहो भवतः काव्यप्रतिभा अवश्यं वर्तते । (अधिकं किञ्चिदग्रे पठित्वा) किन्तु किमिदं पठामि ?
भुक्तिमुक्तिस्पृहा यावत् पिशाची हृदि वर्तते
भुक्तिमुक्तिस्पृहानां पिशाचीत्वं कथमारोपयसि ? तत् कथं सम्भवति ! चतुर्णां पुरुषार्थानां मध्ये कामश्च मोक्षश्च पुरुषार्थौ इति ख्यातौ । ते मनुष्यमात्रस्य मङ्गलं साधयतः। वेदादिशास्त्रेषु प्रयोजनीभूतयोः भुक्तिमुक्त्योः कथं पिशाचीत्वं भवेत् । भवत एतद् वाक्यं अपौरुषेयवेदशास्त्रविरुद्धं, अपराधो वा भवति । एषोऽपराधो स्वस्य समाजस्य च अमङ्गलं उत्पादयिष्यति । हा हा प्रमादः !

श्रीजीवः (स्वगतम्) किं साहसं करोति एष पण्डितंमन्यो धृष्टो ब्राह्मणः । मम गुरोः महिमानं न जानाति । असहनीयम् एतत् ।

श्रीरूपः – आं, समिचीनं भवतो वाक्यम्। एतत् पाठान्तरमपि प्रस्तूयते – व्याप्नोति हृदयं यावद् भक्तिमुक्तिस्पृहाग्रहःइति। एषः पाठः भवते रोचते ?

पण्डितः साधु साधु ! अयं पाठो निर्दोषः स्यात्

श्रीरूपः इदानीं यमुनासलिले स्नात्वा आगच्छ । अहं पराजयपत्रं विलिख्य भवतो हस्ते अर्पयिष्यामि ।

ब्राह्मणः आगच्छामि । (परिक्रमति)

(रूपः लिखितुम् आरभते । श्रीजीवः पङ्खं नामयन् --)

श्रीजीवः जय राधे ! अहमपि स्नातुं यायाम् । आज्ञापयन्तु श्रीगुरुचरणाः ।

श्रीरूपः स्वच्छन्दं गच्छ विलम्बं मा कुरु
(परिक्रमन् ब्राह्मणमनुसरति ।)

श्रीजीवः भोः ब्रह्मन्, प्रणमामि ।

ब्राह्मणः आयुष्मान् भव । कस्त्वम् ? किमिच्छसि ?

जीवः अहं कोऽपि श्रीरूपगोस्वामिनां निकृष्टो दासोऽस्मि । मम श्रीगुरुचरणैः वेदशास्त्राणामपराधं कदापि कर्तुं न शक्यते । न सम्भाव्यते ।

ब्राह्मणः एवमहमपि कथितवान् । वेदशास्त्राणां कर्मज्ञानकण्डयोरपमानकारी पिशाचीशब्दः ।

श्रीजीवः नहि नहि ! सर्ववेदान्तशिरोमणीभूते श्रीमद्भागवतपुराणे मोक्षावाञ्छा न्यक्कृता | मोक्षस्य नरकतुल्यत्वमुक्तमेव यथा
नारायणपराः सर्वे न कुतश्चन बिभ्यति।
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः॥

भागवते कैतवधर्मः प्रोज्झित इत्यप्युक्तम् । मोक्षस्य तत्र कैतवत्वमिति श्रीधरस्वामिपादानां निर्णयः -- प्र-शब्देन मोक्षाभिसन्धिरपि निरस्तः इति यद् यद् भगवद्विमुखं करोति, तत् कैतवम् । तस्यैव पिशाचीत्वम् । अतएव कर्मज्ञानवर्त्मनी उभे पिशाचीवत् त्याज्ये इति सिद्धम् । यदेव भगवद्विमुखीकरोति, तस्यैव पिशाचीत्वं स्वीकर्तव्यम् । अत एव भुक्तिमुक्तिस्पृहायाः पिशाचीत्वं सर्ववेदवेदान्तसिद्धम् ।

ब्राह्मणःआं, तव कथा समीचीना ।

श्रीजीवः महाशय ! सर्ववेदान्तसारस्य भागवतस्य तात्पर्यं नावगम्य, मम श्रीगुरुचरणानां गभीराशयं च नावगम्य, भवान् तत्स्थाने अपराधभाजनमभवत् ।

ब्राह्मणः -- आम आम । त्वं युक्तं वदसि ।

श्रीजीवः -- दैन्यवशतः मम गुरुदेवः तर्कादिपराङ्मुखो भवति । तस्मात् भवतो भ्रमः तैः न दर्शितः ।

ब्राह्मणः इदानीं यमुनायाः पवित्रतोये स्नानं करोमि । ममेष्टदेव-सूर्यनारायणस्थाने बुद्धिं याचित्वा एतद्विषयं विचारयिष्यामि ।

श्रीजीवः आज्ञापयतु भवान् ।

ब्राह्मणः गच्छ । (जीवो निष्क्रामति |)

ब्राह्मणः  (विस्मितः, स्वगतम् ) - असौ युवकः कः ? अद्भुतपाण्डित्यं तीक्ष्णबुद्धित्वं च । स तत्रभवतां कश्चित् शिष्यः स्यात् । यस्य तादृशः शिष्यः, स मम नमस्कार्यः । तस्मात् पराजयपत्रं ग्रहीतुं न पारयामि ।

(ब्राह्मणः स्नानाद्यभिनयं करोति, गायत्रीजपादिकृत्याणि समापयति । पुनः श्रीरूपस्य पार्श्वमुपक्रामति ।)

रुपः (उत्थाय) - भो भूदेव ! आगताः सन्ति तत्रभवन्तः । बाढं ।  भवतः पराजयपत्रं लिखितं मया । गृहाण ॥ (पत्रं दातुमिच्छति ।)

ब्राह्मणः नहि नहि । भवतः श्लोकस्य प्रथमपाठो युक्तियुक्त आसीत् इदानीं स्वीकरोमि।

श्रीरूपः कथमेतत् ?

ब्राह्मणः असौ बालकस्तव सुयोग्यशिष्यो भवेत् । यस्यैवं शास्त्रपारङ्गतो विद्वान् शिष्य:, स ममापि गुरुर्भवितुमर्हति । न किमपि पराजयपत्रं ग्रहीष्यामि । ममापराधं क्षमस्व । गच्छामि । (प्रणामं कृत्वा निष्क्रामति ।)

(श्रीरूप आश्चर्यमभिनयति । हठात् श्रीजीव उपतिष्ठति ।)

श्रीरूपः त्वं किं अमुना पण्डितेन सह मम श्लोकस्य व्याख्याविचारं अकरोः ?

श्रीजीवः (भीतः) एवमेव । श्रीगुरुचरणाः यथा वदन्ति।

श्रीरूपः मूर्ख ! अत्र वृन्दावने शास्त्रतर्कादि भक्तिपथपथिकानां भावविरुद्धम् । अहम् एतत् सर्वं सिन्धोः पूर्वविभागे लिखितवान् । तर्कोऽप्रतिष्ठ इति प्रसिद्धम् । एतादृशं त्वद्गुरुतुल्यं वृद्धमहात्मानं पराजेतुं इच्छा तव महान् अनर्थो भवति । जिगीषा अहङ्कारस्य लक्षणम् । तद् भक्तिविरोधि भवति । श्रीचैतन्यप्रवर्तितसम्प्रदायस्य मूलीभूतमभिधेयवाक्यम् न श्रुतं त्वया ?

तृणादपि सुनीचेन तरोरपि सहिष्णुना ।
अमानिना मानदेन कीर्तनीयः सदा हरिः ॥

इतो गच्छ । अत्र स्थातुमधिकारो नास्ति तव । अहं त्वादृशस्य मूर्खस्य असदाचारं मर्यादालङ्घनं च न सोढुं पारयामि ।  इतो गच्छ । विलम्बं मा कुरु ॥

श्रीजीवः (रुदित्वा) प्रभो ! तस्य भवदपमानं न सोढुं शक्नुवम् । कृपां कुरु । माम् नित्यसेवकं भवत्पार्श्वे रक्षस्व । अहं तव चरणसेवां आमरणं करिष्ये । ममान्या न कापि वाञ्छा । कृपां कुरु ॥

श्रीरूपः (स्वगतम्) वृन्दावनस्योज्ज्वलप्रेमाणं प्राप्तुं दैन्यभावं विना न सम्भवति । एष कठोराचरणस्य मुहूर्त एव । (प्रकाश्यम्) पाण्डित्याभिमानित्वं वैष्णवमार्गे महाननयः । निर्जने गत्वा आत्मानं परीक्षस्व । अहमिकां निर्मूलय । तदा तव वैष्णवसङ्गयोग्यत्वं जनिष्यते ।

यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसम्प्रयुक्तम् ॥

श्रीजीवः (रुदित्वा)प्रभो ! करुणां कुरु मयि । त्वं करुणामयः कथं मां त्यजसि ? (इति निष्क्रान्तः ।)
(रूपगोस्वामी च शिरो नमय्य शुष्कं क्रन्दति ।)

इति जीवे दया नाटके दिग्विजयविजिगीषा नाम तृतीयोऽङ्कः