Wednesday, December 19, 2018

जीवे दया नाटकम् - द्वितीयोऽङ्कः - वृन्दावनागमनम्


(2)
द्वितीयोऽङ्कः
वृन्दावनागमनम्

जीवः (गायन् गायन्) –
कदा वृन्दारण्ये मिहिरदुहितुः सङ्गमाहिते
मुहुर्भ्रामं भ्रामं चरितलहरीं गोकुलपतेः ।
लपन्नुच्चैरुच्चैर्नयनपयसां वेणिभिरहं
करिष्ये सोत्कण्ठं निविडमुपसेकं विटपिनाम् ॥

अवशेषे अहं वृन्दावनधाम प्राप्तवान् अस्मि । आनन्दोत्फुल्लितोऽहं संवृत्तः । इदानीमत्रागतस्य मम स्वप्नः सत्योऽभवत् । मम जन्म सफलमभूत् । सम्प्रति मम पितृव्यौ कुत्र इति प्रष्टव्यम् । अत्रागच्छति कश्चित् स्थानीयलोकः। तं पृच्छामि (उपसर्प्य) हे भ्रातः ! राधे राधे ! अत्र भक्तप्रवरौ रूपसनातननामकौ कुत्र वसतः ? भवान् जानाति किम् ?

व्रजवासी:अथ किम् ! तौ वृन्दावने प्रसिद्धौ । सर्वे तौ जनन्ति । तौ तदनुगतजना अपि लुप्ततीर्थानि कृष्णलीलास्थलीश्चाविष्कृत्य धाम्नो मङ्गलं साधयन्ति ।

जीवःकुत्र वसतस्तौ ?

व्रजवासी:अस्मात् स्थानात् अनतिदूरः केशीघाटोऽस्ति । तत्र श्रीरूपप्रभुः सम्प्रति ग्रन्थान् रचयति । तत्र गत्वा तस्य दर्शनं प्राप्स्यते।

जीवःजय राधे ! धन्यवादः ! (परिक्रमति) अत्र यमुना देवी दृश्यते । (प्रणमति) हा यमुनादेवि ! मातः ! कृपां कुरु ।

जयति तरणिपुत्री धर्मराजस्वसा या
कलयति मथुरायाः सख्यमत्येति गङ्गाम्।
मुरहरदयिता तत्पादपद्मप्रसूतं
वहति मकरन्दं नीरपूरच्छलेन॥

जीवो (दूरतो श्रीरूपं दृष्ट्वा) कथमसौ उज्ज्वलरूपः कश्चिद्वृद्धो ध्यानमग्नो भक्तः यमुनापुलिने दृष्टिपथं गतः । कोऽसौ ? ननु स मम पितृव्यः श्रीरूपो भवेत् । (तं प्रणमति)

श्रीरूपो (ध्यानतो व्युत्तिष्ठति । श्रीजीवं दृष्ट्वा वदति च) कस्त्वं वत्स ? कुत आयातः ?

श्रीजीवः प्रभो ! एषोऽहं तव कनिष्ठानुजस्य श्रीमदनुपमस्य पुत्रोऽस्मि । अहमिदानीं काश्या आगतः ।

श्रीरूपः कथमत्रागमनं तव ?

श्रीजीवः स्वप्ने नित्यानन्दप्रभुनादेशं प्राप्य, अहं नवद्वीपवाराणस्योः न्यायवेदान्तादि शास्त्राणि पठित्वा, तत्रभवतां ससनातनानां सकाशे वैष्णवशास्त्राणि अध्येतुं वृन्दावनमुपातिष्ठम् ।

श्रीरूपः (स्मित्वा) कथं ? तव वेदान्ताध्ययने रुचिर्नास्ति ?

श्रीजीवः यथा सार्वभौमभट्टाचार्यैरवगतम्, अहमपि तथा मन्ये ।

श्रीरूपः कथं तत् ?

श्रीजीवः
ज्ञातं काणभुजं मतं परिचितैवान्वीक्षिकी शिक्षिता
मीमांसा विदितैव साङ्ख्यसरणिर्योगे वितीर्णा मतिः।
वेदान्ताः परिशीलिताः सरभसं किं तु स्फुरन्माधुरी-
धारा काचन नन्दसूनुमुरली मच्चित्तमाकर्षति॥

सर्वे गौडदेशवासिनो वैष्णवा भवन्तौ प्रशंसन्ति । ते वदन्ति यत् भवतोरुपरि श्रीचैतन्यमहाप्रभोः कृपावृष्टिर्निपतिता । तथा भवन्तौ अत्र वृन्दावने सच्छास्त्राणि रचयतः । एतैः शास्त्रैः मायावादतमसाच्छन्नो देशः पुनः भक्तिसिद्धान्तसूर्यकिरणैः आलोकितो भविष्यति । अस्मिन् श्रीचैतन्यदेवस्य सेवाकार्ये अहमपि भवतोरनुगतसेवको भवानि। अहं भवतो दासानुदासो भवितुमिच्छामि।

श्रीरूपः उत्तमम् । शुभा वार्तैव एषा । अहमिदानीं भक्तिरसामृतसिन्धुनामकग्रन्थस्य रचने अभिरतः। त्वं मम सहायतां कर्तुमर्हसि।

(सबाष्पनयनः श्रीजीव आनन्देन श्रीरूपस्य पार्श्वे उपविशति। रूपस्तस्मै रसामृतसिन्धोः कञ्चित् श्लोकं दर्शयति।)



Monday, December 17, 2018

जीवे दया नाटकम् - प्रथमोऽङ्कः - गृहत्यागः

जीवे दया नाटकम्
श्रीकृष्ण कृष्णचैतन्य ससनातनरूपक ।
गोपालरघुनाथाप्तव्रजवल्लभ पाहि माम् ॥
(1)
प्रथमोऽङ्कः
गृहत्यागः
नान्दी --
गुप्तान् अर्थान् अतिनिरमलान् आकलय्य प्रकाश्य
हस्तन्यस्तामलकमिव यः श्रीशुकोक्तं चकार ।
श्रीमद्रूपाग्रजकरुणया जीवजीवातुरूपं
श्रीमज्जीवं भज भवभयात् तारकं तं मनो मे ॥

सूत्रधारः अलमतिविस्तरेण ! (समन्तादवलोक्य) हन्त ! दृश्यतां, दृश्यताम् ! कथमत्र आगता असङ्ख्यसाधुवैष्णवानां मण्डली । अत्र वृन्दावन-राधाकुण्ड-निवासिनः भजनानन्दिनः विद्यार्थिनः, तेषामध्यापकानां च, चैतन्यदेवस्य कृपापात्राणां श्रीरूपसनातनानुगप्रमुखानां गौडीयवैष्णवसम्प्रदायाचार्यप्रवराणां विश्ववैष्णवराजसभाया अधिष्ठातॄणां अस्माकं तत्त्वज्ञानपथप्रदर्शकानां श्रीश्रीजीवगोस्वामिनां गुणान् गातुं श्रोतुं च समागताः। ते सर्वे उत्कण्ठिताः सन्तः अस्माकं कृतिं प्रत्यक्षीकर्तुं इच्छन्ति ।

नटी (प्रविश्य)  आं
, इदानीं कां कृतिं दर्शयिष्यामः ?

सूत्रधारः  अद्य श्रीजीवगोस्वामिप्रभुपादानां तिरोभावतिथिः
, वयं तद्गतप्राणानां तद्वाक्यमात्रैकनिष्ठानां श्रीजीवसंस्थाया महान्तमहाराजानां प्रीत्यर्थे श्रीजीवगोस्वामिनां पारावारविहीनस्य अनन्तवारिधिसदृशस्य जीवनचरितस्य एकांशमात्रं अभिनेतुं प्रवृत्ताः स्मः

नटी -- ततः शीघ्रं आरभामहै !

सूत्रधारः -- कुशीलवाचार्य ! प्रथमतः, वयं अस्माकं संस्थाचार्यं जीवसंस्थायां प्रस्थापकं प्रणामं कुर्मः । तेषां तथा एषां भक्तानां च आशीरपि प्रार्थयाम ! (उभौ करे बद्ध्वा प्रणमतः)

वाञ्छाकल्पतरुभ्यश्च कृपासिन्धुभ्य एव च ।
पतितानां पावनेभ्यो वैष्णवेभ्यो नमः ॥

[नेपथ्ये] हा हन्त! किं भविष्यति मम पुत्रः ?

सूत्रधारः
-- किम् इदं श्रूयते ?

नटी -- काचित् माता स्वपुत्रस्य भविष्यतः चिन्तां करोति ।
अमङ्गलमाशङ्कते।

सूत्रधारः -- कथं तत्
? पार्श्वे स्थित्वा शृणुवः । (तौ निष्क्रामतः)

जीवमाता (प्रविशन्ती) -- हा हन्त! किं भविष्यति मम पुत्रः ?

सखी अरी भगिनि ! तव मुखं कथं म्लानं दृश्यते ।

जीवमाता (विलपन्ती) -- आं आं, सखि ! पुत्रव्यवहारतः अतीवचिन्तितास्मि । हा हन्त! हा हन्त! दुर्भागः पितृविहीनो बालको मम किं भविष्यति ?

सखी
कथं तत् ?

जीवमाता -- मम श्वशुरदेवस्य
कुमारदेवस्य त्रयः तनयाः आसन् । ते रूपसनातनवल्लभ नामानः ।  राजसेवायां सुप्रतिष्ठिता अपि प्रचुरधनैश्वर्याधिकारिणोऽपि , चैतन्यदेवस्य प्रभावे संसारे निर्ममा भूत्वा वृन्दावनं गतवन्तः। रूपसनातनौ संसारादिं त्यक्त्वा प्रेमबातुलाः अभवतम् ।

सखी
ततस्ततः ?

जीवमाता -- तयोः कनिष्ठभ्राता मम पतिदेवता । गङ्गातीरे देहं अस्मान् च
परित्यज्य परलोकं गतवान् । अहं सहायविहीना ! एकाकिनी स्वपुत्रं जीवं लालयामि, तथापि स गृहं मनसि कर्तुं न प्रभवति ।

सखी कथं ? किं वृत्तम् ?

जीवमाताशैशवात् स कृष्णबलराममूर्ती सेवते । अन्येषां बालकानां सङ्गे न खेलति । केवलं भागवतादि धर्म पुस्तकानि पठति । न खादति । खादितुं नेच्छति । सदा प्रलपति ।  कदापि हा हा रूप ! हा हा सनातन इति पितृव्यद्वयस्य नामनी फुत्करोति । कदापिहा गौर हा निताइ इति चीत्करोति ।


अन्या काचित् तस्मिन् संसारविरक्तिरजायत इति भाति । गृहे न स्थास्यति । अहं तं कुत्रापि रहसि रुदन्तं नेत्रजले भासमानं दृष्टवती ।

सखी तव सर्वा भूसम्पत्तिर्विनाक्ष्यति। तव अन्यः कोऽपि नास्ति। पुत्रस्य धर्मप्रधानः स्वमातू रक्षणम्। पुत्रस्य धर्मं न रक्षिष्यति ? छि छि छि |

अन्या काचित् सत्यमेतत् । भगवत्कृपा अवश्यं तदुपरि वर्षति । सदा कृष्णकथासागरे भासते । अल्पवयसि तस्यापि एतावती भक्तिर्दृश्यते ॥ स संसारे न स्थातुं प्रभविष्यति ।

सखी -- भगिनि, तस्य विवाहव्यवस्थां कुरु । काचित् सुन्दरी सती कन्या तं रिज्वीकरिष्यति ।।

माता -- स्वभावं दूरीकर्तुं कः प्रभवति ? यथोक्तं स्वभावस्तु सर्वदा प्रवर्तते

सखी स संसारविरक्तो भवति । गृहैश्वर्यात् उदासीनो भवति । महाप्रभोः कृपा तदुपरि वर्षति । गृहे न स्थास्यति इति मे भाति ।

माता तस्य विवाहव्यवस्था करणीया । तर्हि स स्थास्यति । अत्र बह्व्यः सुन्दर्यः कन्याः वर्तन्ते । तासां एकया कयापि विवाहितो भूत्वा सुखी भविष्यति । संसारकर्तव्यानि पालयिष्यति । अस्मान् गृहलोकान् रक्षिष्यति ।

जीवगोस्वामी (प्रविश्य
, मातृतत्सख्यौ दृष्ट्वा समीपं आगम्य) -- मातः ! पुनः पुनः विवहनस्य वार्तां वदसि । तुभ्यं शपामि -- अहं कस्याश्चित् पाणिग्रहणं न करिष्यामि । मम पितृव्यद्वयः, मम पिता च, सर्वे चैतन्य महाप्रभोः सेवायां व्यापृताः अभवन् । अहमपि शास्त्राण्यधीत्य चैतन्यस्य प्रेमधर्मं प्रचारयिष्यामि । गृहे न स्थास्यामि ।

माता -- स्वमातुः प्रति एतादृशी निष्ठुरता। एतावती निर्ममता। त्वयि गृहं त्यक्तवति अस्माकं संसारं को विधास्यति
?

जीवः -- भगवान् अवश्यं रक्षिष्यति...

(ता निःसरन्ति, स परिक्रामति। निर्विण्णो भूत्वा श्रीजीवनिर्जनस्थाने गत्वा अचिन्तयत् ।)

जीवः -- किं करोमि ? किन्तु अहं पितृव्यचरणाननुकर्तुं शक्नोमि ? एकाकिनीं मम मातरं वा त्यक्तुं कथं शक्ष्यामि ? एताभिः चिन्ताभिः मम चित्तं घूर्णति । विश्रामं करवाणि । [शयनाभिनयं करोति]

(
सङ्कीर्तनरतौ चैतन्यनित्यानन्दौ हठात् आविर्भवतः ।)

चैतन्यः  -- हे जीव ! मा शुचः । तव सर्वं मङ्गलं भविष्यति । याहि, वृन्दावनमातिष्ठ । तत्र रूपसनातनौ त्वां सर्वान् वैष्णवसिद्धान्तान् शिक्षयिष्यतः

नित्यानन्दः  -- गच्छ, न्यायवेदान्तादिशास्त्राणि अध्येहि । वृन्दावने श्रीश्रीराधामाधवौ अवश्यं त्वयि कृपां करिष्यतः ।

जीवः -- मम माता दुःखिनी भविष्यति । ताम् दुःखीकर्तुं न पारयामि ।

नित्यानन्दः  -- मा चिन्तय । यस्य भक्तस्य विशुद्धप्रेमास्ति, तस्य पितरमातरौ पूर्वपुरुषा अपि सर्वे उद्ध्रीयन्ते ।

चैतन्यः -- राधाकृष्णचरणप्राप्तेः सर्वं जगत् मङ्गलमयं भवति । "मद्भक्तियुक्तो भुवनं पुनाति ।"

जीवः -- तां प्रति मम न किमपि कर्तव्यं, न कोऽपि ऋणः ?

नित्यानन्दः  -- भगवान् स्वयं भागवते वदति

देवर्षिभूताप्तनॄणां पितॄणां नायं किङ्करो नायम् ऋणी च राजन्
सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम्

विश्वासं कृत्वा आवयोरुपदेशं आचर । अहं तव मार्गं प्रशस्तं निष्कण्टकं च करिष्यामि।

जीवः  -- यथाज्ञापयथः तथा करवाणि । (स प्रणमति। तौ अन्तर्दधतः।)

जीवः  (समन्तादवलोक्य) -- सर्वे निद्रति। अस्मिन् मुहूर्ते अदृश्यः पलायनं करोमि  (गायन् गायन्)

एतां समास्थाय परात्मनिष्ठाम् अध्यासितां पूर्वतमैर्महद्भिः |
अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव ||


इति जीवे दया नाटके गृहत्यागो नाम प्रथमोऽङ्कः समाप्तः।