Monday, December 31, 2018

जीवे दया नाटके जीवपूर्णमनोरथ-नामकः पञ्चमोऽङ्कः


(5)
पञ्चमोऽङ्कः
जीवपूर्णमनोरथम्

(सनातनगोस्वामी कृष्णनामानि कीर्तयन् नन्दघाटनामकग्रामं प्रविशति ।)

सनातनः – नन्दघाटमागतोऽस्मि । अत्र वरुणेन गोपराजनन्दनस्य अपहरणं संवृत्तम् । मध्याह्नसमय आपतितः । कुत्र भिक्षां करिष्यामि ? ग्रामे गत्वा पश्यामि । व्रजवासिनीनां कृपया मधुकरीं कृत्वा भजनं कर्तुं शक्नोमि । ताः सर्वा राधासखीस्वरूपा एव । व्रजवासिनीनां करुणया किञ्चिदश्नीयाम् ।

(गृहपार्श्वे स्थित्वा स गातुं आरभते ।)

कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण हे !
कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण हे !

सनातनः – मातः ! भिक्षां देहि । अभुक्तोऽस्मि । कृपां कुरु ।

स्त्री – बाबा ! आगच्छ । दास्यामि गृहाण । रोटिकां गृहाण । व्यञ्जनमपि दास्ये ? तिष्ठ शीघ्रमायास्ये ।

सनातनः – मातः ! एकैव रोटिका दीयताम् । अहम् एकस्मात् गृहाद् अधिकम् न गृह्नामि । मम व्रतम् इदम् ।

स्त्री – त्वद्विधो एको युवको वैरागी अमुष्यां गुहायां वसति । स तीव्रवैराग्यम् अभ्यस्यति । किञ्चिन्मात्रं गोधूमचूर्णं जलेन मिश्रितं पाकं विना खादति । रन्धनमपि न कुरुते ।

सनातनः – कथम् ? कः स युवकः सन्न्यासी ?

स्त्री – स कतिचित् दिनेभ्यः पूर्वं अत्र आगतवान् । तस्य परिचयं न जानामि ।

सनातनः (स्वगतम्) – असौ अस्माकं प्रियो जीवको भवितुमर्हति। (प्रकाशम्) गच्छामि द्रष्टुम्।

(परिक्रामति | जीवगोस्वामिनं दृष्ट्वा) हाय हाय ! कृशकायोऽयं युवको जीव एव। (तं प्रति धावति आलिङ्गति च) हे 
जीव ! तात ! तव शरीरमतिक्षीणम् अभवत्। त्वं कथं जीवसि ?

(जीवगोस्वामी तं प्रणमति)

वैराग्ययुग्भक्तिरसं प्रयत्नैरपाययन्मामनभीप्सुमन्धम् ।
कृपाम्बुधिर्यः परदुःखदुःखी सनातनं तं प्रभुमाश्रयामि ॥

सनातनः -- वत्स ! शान्तो भव । मया सह चल । रूपस्तवागमनमपेक्षते । स त्वां क्षमते । वैष्णवाचारं जगति शिक्षयितुं एतं लीलामभिनयमकरोत् । त्वं तस्य पार्श्वे गत्वा तं सेवस्व । सर्वं मङ्गलं भविष्यति ।

(हठात् श्रीरूप आविर्भवति) – हे जीव ! अहं क्षणमपि त्वां न व्यस्मरम् । अहं निरन्तरं तव पार्श्वे अतिष्ठम् । अद्यैव वृन्दावनमागच्छ । तत्र स्थित्वा भक्तिमयपुस्तकानि रचयिष्यसि ।

श्रीजीवः – इदानीमेव भागवतसन्दर्भनामग्रन्थस्य बीजं मम मनसि आविर्भूतम् । तस्मिन् सम्बन्धाभिधेयप्रयोजनतत्त्वानि भागवतशास्त्रप्रमाणभूतैः श्लोकैः सज्जीकरिष्यते । तत्र भागवतस्य यथार्थसिद्धान्तं सर्वेभ्य्ः सुस्पष्टं भविष्यति ।

रूपसनातनौ – त्वं कलियुगपावनावतारस्य श्रीकृष्णचैतन्यमहाप्रभोः, आवयोश्च कृपापात्रम् । तव पाण्डित्यं च प्रेमभक्तिश्च सर्वदा उज्ज्वला वर्तेत । किं अन्यं कमपि वरं याचिष्यसे ?

श्रीजीवः – आं । वृन्दावने स्थिताः सर्वे भक्ताः श्रीश्रीराधामाधवयोः कृपां प्राप्नुवन्तु । यथा भवान् स्वयं व्यलिखत् श्रीललितमाधवनाटके भरतवाक्यम् –

चिराद् आशामात्रं त्वयि विरचयन्तः स्थिरधियो
विदध्युर्ये वासं मधुरिमगभीरे मधुपुरे ।
दधानः कैशोरे वयसि सखितां गोकुलपतेः
प्रपद्येथास्तेषां परिचयमवश्यं नयनयोः ॥

(राधे गोविन्द इति नामानि कीर्तयन्तः प्रस्थिताः सर्वे ।)

इति जीवे दया नाटके जीवपूर्णमनोरथ-नामकः पञ्चमोऽङ्कः समाप्तः ।

सम्पूर्णमिदं जीवेदया नाटकम् ।

जीवे दया नाटके -- चतुर्थोऽङ्कः -- सनातनरूपयोः संवादः


(4)
चतुर्थोऽङ्कः
सनातनरूपयोः संवादः

सनातनगोस्वामी (श्रीरूपस्य कुटीरमुपक्रम्य उच्चैराह्वयन् ) – अत्र कोऽप्यस्ति वा ?

रूपः (जपमालां हस्ते धृत्वा कुटिरात् निष्काश्य) – भोः प्रभो ! सर्वं कुशलं भवति किम्? कुत आगतोऽसि । किंप्रयोजनमत्र भवदागमनम्?

सनातनः – गोवर्धनादागतोऽस्मि । त्वां च अनुपमतनयं जीवमपि द्रष्टुमैच्छम्।

रूपः – जीवो नास्त्यत्र ।

सनातनः – कथं तत् ? स भक्तिरसामृतसिन्धोः संशोधनकार्ये त्वया नियुक्त आसीत्, न वा ?

रूपः – अथ किम् । तस्य अनुपस्थितौ सिन्धुः स्थगितोऽभवत् । ऊर्मिमात्रं न स्पन्दते ।

सनातनः – ततो लिखनं स्थगितम् ?

रूपः – अथ किम् । जीवं विना मम लिखनमपि निर्जीवमभवत् ।

सनातनः – एतदर्थं त्वं समवसन्न इव दृश्यसे | अहमपि तं न दृष्ट्वा दुःखी अभवम् । कथं जीवो नात्र ?

रूपः – शिक्षादण्डनाय तं निरवासयम्। स वैष्णवसदाचारे अनभिज्ञः । स वैष्णवोचितदैन्यं न जानाति । इदानीमपि तस्य पण्डिताभिमानः प्रबलतरो वर्तते । किन्तु तं विना मम व्रजवासः शून्य इवास्ति।

सनातनः – आहा ! सोऽपि अत्यन्तदुःखी भविष्यति। परदुःखदुःखित्वं त्वयि न वर्तते ?

रूपः – तस्य विच्छेददुःखमहमपि सोढुं न शक्नोमि ।

सनातनः – चैतन्यस्य धर्मो जीवे दया इति ख्यातः । तदर्थं आवां पुस्तकानि रचयावः । अस्मिन् कार्ये जीवस्य भूमिका अत्यन्त गुरुत्वपूर्णा। तं विना तत् कार्यस्य पूर्णता न सम्भविष्यति। । अत एव सर्वजीवानां दयार्थं आवयोर्जीवको दयनीयः । केवलं जीवदयाद्वारेण जीवे दया सम्भविष्यति । तं ग्रन्थरचना संशोधनादिकार्ये नियोजय सर्वभूतेषु भवान् दयावान् ।

रूपः – प्रभो ! भवान् युक्तं वदति। इदानीं किं करिष्ये ?  स कुत्रागच्छत् ? तत् केनापि न ज्ञातम्। कुत्र गत्वा स प्राप्यते ?

सनातनः – राधाकृष्णचरणयोः प्रार्थयामि। अस्माकं प्रियः भ्रातुष्पुत्रः चैतन्यमहाप्रभोः प्रेमधर्मं प्रचारयितुं अवतीर्णः। सोऽवश्यं मार्गितव्यः । हा व्रजदेवि राधे  अस्माकं भ्रातुष्पुत्रः तव प्रियसेवको भवति। कृपया तस्य दिशं दर्शय।  (इति निर्गच्छति।)

इति जीवे दया नाटके “सनातनरूपयोः संवादः” इति चतुर्थोऽङ्कः समाप्तः ।

Wednesday, December 19, 2018

जीवे दया नाटकम् - तृतीयोऽङ्कः - दिग्विजयविजिगीषा


(3)
तृतीयोऽङ्कः
दिग्विजयविजिगीषा

(प्रविशति पीनकायः कश्चिद्ब्राह्मणः)

ब्राह्मणः – अहं रूपनारायणः चतुर्वेदी । मत्सदृशः पण्डितः भारतवर्षे कुत्रापि नास्ति ।  सर्वत्र वेदवित्-श्रेष्ठानां समक्षे पराजयपत्रं गृहीत्वा दिग्विजयीति ख्यातिं प्राप्तवान् । (समन्तादवलोक्य) इदानीं वृन्दावनम् आगतोऽस्मि, यतः अत्र कश्चित् विद्वत्तमः रूपगोस्वामीनामकः साधुपुरुषो वसतीति मया श्रुतम्। विचारवितण्डे निज्योज्य तमपि पराजित्य तस्मात् पत्रं प्राप्स्यामि । (परिक्रमति)

(श्रीजीववीज्यमानं श्रीरूपगोस्वामिनां दूरतो दृष्ट्वा) – असौ एव स भवेत्। अहमुपसर्पामि । अहं रूपनारायणः चतुर्वेदी । मत्सदृशः पण्डितः भारतवर्षे कुत्रापि नास्ति ।  सर्वत्र वेदवित्-श्रेष्ठानां समक्षे पराजयपत्रं गृहीत्वा दिग्विजयीति ख्यातिं प्राप्तवान् । भवत्सकाशे पराजयपत्रं ग्रहीतुमिच्छामि । तर्कयुद्धे अस्माभिः सह शास्त्रार्थस्य यथायथं सिद्धान्तं अहं प्रतिष्ठापितुं प्रवृत्तोऽस्मि । सर्वमतान् पराजित्सु अहं स्वमतं स्थापयिष्यामि ।

भोः वैष्णवप्रधानख्यातनामा श्रीरूपगोस्वामिन् प्रणामाः । अहं भवन्तं तर्कयुद्धे तिरस्कृत्य भवतः स्वहस्तलिखितं पराजयपत्रं ग्रहीतुं उपनीतोऽस्मि ।

रूपः – भूसुरवर ! तत्रभवतां पाद्पद्मे सविनयं प्रणामं स्वीकुरुध्वम् । वयं मूर्खाः किं जानीमः? अस्मासु भवतः शिष्यो भवितुं योग्यता नास्ति ।

पण्डितः – भवता रसामृतसिन्धुनामको लक्षणग्रन्थो रच्यमानो भवति इत्यहं श्रुतवान् ।

रूपः – अथ किम् ।

पण्डितः – पाण्डुलिपिं द्रक्ष्ये, कियदंशं पठितुमाज्ञापयतु । (किञ्चित् पठित्वा) हंहो भवतः काव्यप्रतिभा अवश्यं वर्तते । (अधिकं किञ्चिदग्रे पठित्वा) किन्तु किमिदं पठामि ?
“भुक्तिमुक्तिस्पृहा यावत् पिशाची हृदि वर्तते ।“
भुक्तिमुक्तिस्पृहानां पिशाचीत्वं कथमारोपयसि ? तत् कथं सम्भवति ! चतुर्णां पुरुषार्थानां मध्ये कामश्च मोक्षश्च पुरुषार्थौ इति ख्यातौ । ते मनुष्यमात्रस्य मङ्गलं साधयतः। वेदादिशास्त्रेषु प्रयोजनीभूतयोः भुक्तिमुक्त्योः कथं पिशाचीत्वं भवेत् । भवत एतद् वाक्यं अपौरुषेयवेदशास्त्रविरुद्धं, अपराधो वा भवति । एषोऽपराधो स्वस्य समाजस्य च अमङ्गलं उत्पादयिष्यति । हा हा प्रमादः !

श्रीजीवः (स्वगतम्) – किं साहसं करोति एष पण्डितंमन्यो धृष्टो ब्राह्मणः । मम गुरोः महिमानं न जानाति । असहनीयम् एतत् ।

श्रीरूपः – आं, समिचीनं भवतो वाक्यम्। एतत् पाठान्तरमपि प्रस्तूयते – “व्याप्नोति हृदयं यावद् भक्तिमुक्तिस्पृहाग्रहः” इति। एषः पाठः भवते रोचते ?

पण्डितः – साधु साधु ! अयं पाठो निर्दोषः स्यात् ।

श्रीरूपः – इदानीं यमुनासलिले स्नात्वा आगच्छ । अहं पराजयपत्रं विलिख्य भवतो हस्ते अर्पयिष्यामि ।

ब्राह्मणः – आगच्छामि । (परिक्रमति)

(रूपः लिखितुम् आरभते । श्रीजीवः पङ्खं नामयन् --)

श्रीजीवः – जय राधे ! अहमपि स्नातुं यायाम् । आज्ञापयन्तु श्रीगुरुचरणाः ।

श्रीरूपः – स्वच्छन्दं गच्छ । विलम्बं मा कुरु ।
(परिक्रमन् ब्राह्मणमनुसरति ।)

श्रीजीवः – भोः ब्रह्मन्, प्रणमामि ।

ब्राह्मणः – आयुष्मान् भव । कस्त्वम् ? किमिच्छसि ?

जीवः – अहं कोऽपि श्रीरूपगोस्वामिनां निकृष्टो दासोऽस्मि । मम श्रीगुरुचरणैः वेदशास्त्राणामपराधं कदापि कर्तुं न शक्यते । न सम्भाव्यते ।

ब्राह्मणः – एवमहमपि कथितवान् । वेदशास्त्राणां कर्मज्ञानकण्डयोरपमानकारी पिशाचीशब्दः ।

श्रीजीवः – नहि नहि ! सर्ववेदान्तशिरोमणीभूते श्रीमद्भागवतपुराणे मोक्षावाञ्छा न्यक्कृता | मोक्षस्य नरकतुल्यत्वमुक्तमेव । यथा –
नारायणपराः सर्वे न कुतश्चन बिभ्यति।
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः॥

भागवते कैतवधर्मः प्रोज्झित इत्यप्युक्तम् । मोक्षस्य तत्र कैतवत्वमिति श्रीधरस्वामिपादानां निर्णयः -- “प्र-शब्देन मोक्षाभिसन्धिरपि निरस्तः” इति । यद् यद् भगवद्विमुखं करोति, तत् कैतवम् । तस्यैव पिशाचीत्वम् । अतएव कर्मज्ञानवर्त्मनी उभे पिशाचीवत् त्याज्ये इति सिद्धम् । यदेव भगवद्विमुखीकरोति, तस्यैव पिशाचीत्वं स्वीकर्तव्यम् । अत एव भुक्तिमुक्तिस्पृहायाः पिशाचीत्वं सर्ववेदवेदान्तसिद्धम् ।

ब्राह्मणः – आं, तव कथा समीचीना ।

श्रीजीवः – महाशय ! सर्ववेदान्तसारस्य भागवतस्य तात्पर्यं नावगम्य, मम श्रीगुरुचरणानां गभीराशयं च नावगम्य, भवान् तत्स्थाने अपराधभाजनमभवत् ।

ब्राह्मणः -- आम आम । त्वं युक्तं वदसि ।

श्रीजीवः -- दैन्यवशतः मम गुरुदेवः तर्कादिपराङ्मुखो भवति । तस्मात् भवतो भ्रमः तैः न दर्शितः ।

ब्राह्मणः – इदानीं यमुनायाः पवित्रतोये स्नानं करोमि । ममेष्टदेव-सूर्यनारायणस्थाने बुद्धिं याचित्वा एतद्विषयं विचारयिष्यामि ।

श्रीजीवः – आज्ञापयतु भवान् ।

ब्राह्मणः – गच्छ । (जीवो निष्क्रामति |)

ब्राह्मणः  (विस्मितः, स्वगतम् ) - असौ युवकः कः ? अद्भुतपाण्डित्यं तीक्ष्णबुद्धित्वं च । स तत्रभवतां कश्चित् शिष्यः स्यात् । यस्य तादृशः शिष्यः, स मम नमस्कार्यः । तस्मात् पराजयपत्रं ग्रहीतुं न पारयामि ।

(ब्राह्मणः स्नानाद्यभिनयं करोति, गायत्रीजपादिकृत्याणि समापयति । पुनः श्रीरूपस्य पार्श्वमुपक्रामति ।)

रुपः (उत्थाय) - भो भूदेव ! आगताः सन्ति तत्रभवन्तः । बाढं ।  भवतः पराजयपत्रं लिखितं मया । गृहाण ॥ (पत्रं दातुमिच्छति ।)

ब्राह्मणः – नहि नहि । भवतः श्लोकस्य प्रथमपाठो युक्तियुक्त आसीत् । इदानीं स्वीकरोमि।

श्रीरूपः – कथमेतत् ?

ब्राह्मणः – असौ बालकस्तव सुयोग्यशिष्यो भवेत् । यस्यैवं शास्त्रपारङ्गतो विद्वान् शिष्य:, स ममापि गुरुर्भवितुमर्हति । न किमपि पराजयपत्रं ग्रहीष्यामि । ममापराधं क्षमस्व । गच्छामि । (प्रणामं कृत्वा निष्क्रामति ।)

(श्रीरूप आश्चर्यमभिनयति । हठात् श्रीजीव उपतिष्ठति ।)

श्रीरूपः – त्वं किं अमुना पण्डितेन सह मम श्लोकस्य व्याख्याविचारं अकरोः ?

श्रीजीवः (भीतः) – एवमेव । श्रीगुरुचरणाः यथा वदन्ति।

श्रीरूपः – मूर्ख ! अत्र वृन्दावने शास्त्रतर्कादि भक्तिपथपथिकानां भावविरुद्धम् । अहम् एतत् सर्वं सिन्धोः पूर्वविभागे लिखितवान् । “तर्कोऽप्रतिष्ठ” इति प्रसिद्धम् । एतादृशं त्वद्गुरुतुल्यं वृद्धमहात्मानं पराजेतुं इच्छा तव महान् अनर्थो भवति । जिगीषा अहङ्कारस्य लक्षणम् । तद् भक्तिविरोधि भवति । श्रीचैतन्यप्रवर्तितसम्प्रदायस्य मूलीभूतमभिधेयवाक्यम् न श्रुतं त्वया ?

तृणादपि सुनीचेन तरोरपि सहिष्णुना ।
अमानिना मानदेन कीर्तनीयः सदा हरिः ॥

इतो गच्छ । अत्र स्थातुमधिकारो नास्ति तव । अहं त्वादृशस्य मूर्खस्य असदाचारं मर्यादालङ्घनं च न सोढुं पारयामि ।  इतो गच्छ । विलम्बं मा कुरु ॥

श्रीजीवः (रुदित्वा) – प्रभो ! तस्य भवदपमानं न सोढुं शक्नुवम् । कृपां कुरु । माम् नित्यसेवकं भवत्पार्श्वे रक्षस्व । अहं तव चरणसेवां आमरणं करिष्ये । ममान्या न कापि वाञ्छा । कृपां कुरु ॥

श्रीरूपः (स्वगतम्) – वृन्दावनस्योज्ज्वलप्रेमाणं प्राप्तुं दैन्यभावं विना न सम्भवति । एष कठोराचरणस्य मुहूर्त एव । (प्रकाश्यम्) पाण्डित्याभिमानित्वं वैष्णवमार्गे महाननयः । निर्जने गत्वा आत्मानं परीक्षस्व । अहमिकां निर्मूलय । तदा तव वैष्णवसङ्गयोग्यत्वं जनिष्यते ।

यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसम्प्रयुक्तम् ॥

श्रीजीवः (रुदित्वा) – प्रभो ! करुणां कुरु मयि । त्वं करुणामयः कथं मां त्यजसि ? (इति निष्क्रान्तः ।)
(रूपगोस्वामी च शिरो नमय्य शुष्कं क्रन्दति ।)

इति जीवे दया नाटके दिग्विजयविजिगीषा नाम तृतीयोऽङ्कः