Sunday, March 29, 2009

देवि अपावृणु

अद्याहं चिन्तयामि किमत्र लिख्यत इति। बहूनि दिनानि व्यतीतानि सन्ति तथापि अहं न किञ्चिल्लिखितवानस्मि। तदेव किञ्चिल्लिख्यतामेव।

इदानीं कुत्राप्यपठं यत् कस्या अपि भाषायाः शिक्षार्थी अवश्यं तस्यां नवभाषायां शृणोतु वदतु पठतु लिखत्वपि च। अहं सर्वं करोमि किन्तु लिखने खलु पश्चात्पादो।स्मि।

मम लिखनमात्रे कारणीभूते सति यस्मिन् कस्मिंश्चिद् एव विषये लिखितुं शक्नोमि। साध्वसाध्वोरुपाधेयानुपधेययोश् चिन्तनम् अपि व्यर्थम्। उल्लेख्यं तु मम गणनायन्त्रस्य साम्प्रतदेवनगर्यक्षरमुद्रणेऽक्षमता यदर्थे अहं महानुभवानां पठकानां क्षन्तव्यः। स्वयन्त्रे कर्मारभ्यतां तदा यथासमये पुनः देवनगरीलिप्यां लिखिष्ये।

गतकल्ये देवीचन्द्रवदन्याः श्रीमन्दिरे सचात्रगणो गतवान्। भावाभिभूतो भूत्वा आंग्लाभाषायामेकां कवितां अहमरचयं यस्याः संस्कृतानुवादोऽत्र निबध्यते



पर्वतशिखरं प्राप्ताः।
अन्तिमार्धक्रोशमेव चरणैश्चलिताः ।
तत्र सोपानान्यप्यासन् अतो न वयं
पर्वतारोहकवीरा इति वाच्यम्।
तथापि तु वायुमण्डलस्यागाढत्वे
शिरांसि घूर्णन्तेऽस्माकम्।

चिलपक्षिणोऽस्माकमधश्चक्रवद्घूर्णन्तः,
तदधःस्थितक्षेत्रखण्डानामुपर्युत्पतन्तीति वीक्षामहे।

पार्श्ववर्तिपर्वतशृग़्गाणि परिष्वज्य
चिन्नमेघखण्डाः कालिदासस्य दूत इव विश्रमन्ते।
ते किं यक्षसः कमपि नवसन्देशमपेक्षन्ते?
किं वा शक्तिं सञ्चार्य नातिदूरे दिक्चक्रवाले
दृष्टं हिमाचलं पुनर्गन्तुं प्रवर्तिष्यन्ते?

ढाकढोला धमधमायन्ते,
देवीमन्त्रा गुञ्जन्ते, सप्तशतिर्कलकलं शब्दायते,
प्रार्थकाः फुत्कुर्वते, घण्टा भृशं क्वणन्ते।
अस्मिन् कोलाहल एकं नारिकेलं क्रीणामि,
तव चरणे च तमर्पयामि चन्द्रानने।

हे योगमाये!
एतस्य श्वेतनीलस्य स्फटिकाकाशस्य नीचे
तव सकाशे पुनरागतोऽस्मि--
यथा पूर्वे वृन्दावने उल्लासमयपरिक्रमणे,
यथा च नवद्वीपे मध्यरात्रौ
प्रौढमातृकायाः प्रसृताणां कालानां शाखानां नीचे, तथा।

यदर्थे आशां सततं वर्धन्त्यस्से,
न तु कदापि यच्छसि,
तदर्थमेव पुनः प्रार्थयामि।
भिक्षां देहि। अपावृणु अपावृणु।

अस्मादतीवोच्चस्थानात् देवि पौर्णमासि,
यस्मात्त्वं खलु जगन्नृत्यमानमोहजवनिकया वृणोषि
पुनः पुनः प्रार्थयामि -- अपावृणु अपावृणु।

दन्ते तृणकं दष्ट्वा इदमपि पृच्छामि
कस्मात् युगलकिशोरं पृथक् करोषि ?
किमर्थं तौ दिशां हापयित्वा भ्रामयसि
कण्टकाकीर्णे सरीसर्पदुष्टे वृन्दावने वने ?
कथं राधां मानेन धापयसि ?
कथं वा कृष्णं बद्धतस्करम् इव निःशक्तिकं करोषि,
येन स वृक्षान् खगांश्च भवतीमप्य् आश्रयति ?

सरलीभव देवि। जवनिकामपावृणु
तयोर्नित्यदिव्यानन्दं लीलामेव दर्शय।
नूनं तुभ्यं तयोरपार्थकं पृथक्त्वम् रोचते।
ननु तत् सर्वं तव कला
किन्तु लीलेयं मम हृदये शैलम् इव कषति।

देवि अपावृणु अपावृणु।