Tuesday, August 17, 2021

मम पुत्रः अप्राप्यः

 शन्वासरे मम पुत्रः कस्मिṁśचित् पर्वते कैश्चित् बन्धुभिः सह द्विचक्रिकायान-भ्रमणे निर्गतवान् । तान् बन्धून् त्यक्त्वा एकत्वेन अन्यस्मिन् वर्त्मनि प्रस्थितवान् । तत्र कुत्रापि स्वयानं स्वशिरस्त्राणं स्वस्य उपनेत्राणि च विक्षिप्य गाढारण्यदेशे प्रविष्टवान् । यदा स न प्रत्यावर्तत, तस्य बन्धवः सन्ध्यायां तत्र क्षेत्रपालान् विज्ञाप्य मम पुत्रस्य मातरमपि ज्ञापितवन्तः । 


इदानीं चत्वारि दिनानि विगतानि । पर्वतस्थानीयाः बहवः स्वेच्छासेवकाः, पोलीसाधिकारिणः हेलिकप्टरयानद्वारेण घ्राणचतुरैः कुक्कुरैश् च, अन्यैः उपायैरपि अन्विच्छन्तोऽपि तस्य अस्तित्वगन्धं न प्राप्नुवन् । 


मातुः मम च आशादीपः निर्वापितप्रायः । पूर्णयौवनप्राप्तः सुन्दरः बुद्धिमान् पुरुषः किमर्थं तिरोहित इव गतः ? किञ्चित् ज्ञातुं न शक्नुमः, तस्य अन्यः कोऽपि अवशेषः न प्राप्यते ।

Monday, August 16, 2021

अद्य औगुस्टमासस्य पञ्चदशदिनाङ्के

 


अद्य औगुस्टमासस्य पञ्चदशदिनाङ्के वयं विगतपञ्चसप्ततिवर्षाणां पूर्वे भारतवर्षस्य आधुनिकरूपस्याविर्भावं स्मरामः ।

 

यद्यपि वयं अस्माकं देशं "भारतवर्ष" इति नाम्ना व्यपदिशामः, अस्य देशस्य यद् ईदृक् आधुनिकं रूपं, तत् पूर्वे इतिहासे कदापि नादृश्यत ।

 

अर्थात्, ब्रिटिशयुगे "इण्डिया"-नाम्नी एका नवीना सृष्टिरभूत्, यस्यां अस्य उपमहाद्वीपस्य सर्वे निवासिनः एकत्र एकेनैव सम्राजेन शासिता अभवन् ।

 

स्वाधीनतायां सम्पन्नायां, तस्याः हि इण्डियायाः "भारतवर्ष" इति नामकरणं संवृत्तम् । किन्तु अस्मिन् भूखण्डे ब्रिटिशैः यत् अतिविस्तृतं साम्राज्यं स्थापितं प्रतिष्ठितं वा आसीत्, तादृशं एकछत्रसाम्राज्यं अन्येन केनापि न अधिकृतम्, न अशोकेन, न चन्द्रगुप्तेन, न आऊरङ्गजेबेन वा ।

 

ननु तस्मात् एतस्य भूखण्डस्य एकत्वं कदापि न सम्भाव्यते खलु। इति

स्वाभाविकः सन्देहः यदि कस्यापि स्यात्, अहं तत्र एतत् वदामः --

 

तस्यां अवस्थायामपि, वर्तमानस्य भारतस्य स्वाभाविकसंसक्तिरेव असाधारणं एकत्वं च दरीदृश्यते स्म ।

 

अन्ततः भारतखण्डे हिमालयेभ्यः कन्याकुमारीपर्यन्तं ये ये मुख्याः प्रदेशाः सन्ति, ते सर्वे स्थानीयव्यवहृतभाषानुसारेण रचिता आसन् । तथापि तेषां निवासिनः प्रायशः स्वं स्वं स्वरूपं भारतीय इति मन्यन्ते ।

 

आन्ध्रो वा भवतु, बांगालो वा भवतु, पञ्जाबी भवतु एव वा, ते प्रायः सर्वत्र स्वस्य स्वस्य भारतीयत्वं स्वीकुर्वन्ति, गर्वमपि अनुभवन्ति, भारतस्य प्रगतिं समृद्धिं सफलतं च कामयन्ते |

 

तेषां मध्ये बहवः मुसुलमाना अपि गण्याः सन्ति । धीरे धीरे तेऽपि भारतीया भवितुं गर्वं कुर्वन्ति ।

 

अधुना विश्वे हिन्दूधर्मस्य पुनरुत्थानं दृश्यते । यस्माद् हिन्दूत्वमेव भारतीयत्वम् । भारतस्य मुसुलमाना अपि हज्जार्थं मक्कं गत्वा हिन्द्वी इति स्वपरिचयं ददते ।

 

हिन्दु इति यः शब्दः, तस्य प्राथमिकोऽर्थः भूगोलसम्पृक्तः, धर्मसम्पृक्तो न ।

 

तथापि सुदीर्घस्य इतिहासस्य संघर्षाणां फले सर्वत्र अज्ञातवत् एकम् अदृश्यमानं स्रोतः वहति, येन अयं देशः एकत्वेन व्याप्तः ।

 

तत् किम् ?

अहं इतो न विस्तारयामि समयस्य अभावात् । मम अन्यानि कर्माणि अपेक्षन्ते । तथापि मुख्या वार्ता इयम् -- भारतीयता संस्कृतभाषा एव हि। यत् स्रोतः भारतवर्षनामकं भौगोलिकप्रदेशं व्याप्नोति, तदेव संस्कृतभाषा ।

 

केन भारतनागरिकेण, बालेनापि, पंजाब-सिन्ध-गुजरात-प्रदेशीयेन वापि, न ज्ञायतां रबीन्द्रनाथस्य अपूर्वभाषायां भगवतः एतत् स्वरूपं -- "जन-गण-मन-अधिनायक जय हे, भारत-भाग्य-विधाता !"?

 

एतत् वाक्यं भारतस्य सर्वासु मुख्यभाषासु बोधगम्यं भवति, काव्यार्थरूपत्वेन च अनुभूयते ।

 

संस्कृतमेव भारतस्य अदृश्यप्रायं अप्रतीतप्रायं एकत्वस्रोतः ।

 

मम भारतदेशभक्तिः, मम संस्कृतप्रेमित्वं च,

कृष्णभक्तेरेव किमपि अनपेक्षितं आनुषङ्गिकं फलम् ।