अद्य औगुस्टमासस्य पञ्चदशदिनाङ्के वयं विगतपञ्चसप्ततिवर्षाणां
पूर्वे भारतवर्षस्य आधुनिकरूपस्याविर्भावं स्मरामः ।
यद्यपि वयं अस्माकं देशं "भारतवर्ष" इति नाम्ना
व्यपदिशामः, अस्य देशस्य यद् ईदृक् आधुनिकं रूपं, तत् पूर्वे इतिहासे कदापि नादृश्यत ।
अर्थात्, ब्रिटिशयुगे
"इण्डिया"-नाम्नी एका नवीना सृष्टिरभूत्, यस्यां अस्य उपमहाद्वीपस्य सर्वे निवासिनः एकत्र एकेनैव सम्राजेन शासिता
अभवन् ।
स्वाधीनतायां सम्पन्नायां, तस्याः हि इण्डियायाः "भारतवर्ष" इति नामकरणं संवृत्तम् ।
किन्तु अस्मिन् भूखण्डे ब्रिटिशैः यत् अतिविस्तृतं साम्राज्यं स्थापितं प्रतिष्ठितं
वा आसीत्, तादृशं एकछत्रसाम्राज्यं अन्येन केनापि न अधिकृतम्, न अशोकेन, न चन्द्रगुप्तेन, न
आऊरङ्गजेबेन वा ।
ननु तस्मात् एतस्य भूखण्डस्य एकत्वं कदापि न
सम्भाव्यते खलु। इति
स्वाभाविकः सन्देहः यदि कस्यापि स्यात्, अहं तत्र एतत् वदामः --
तस्यां अवस्थायामपि, वर्तमानस्य
भारतस्य स्वाभाविकसंसक्तिरेव असाधारणं एकत्वं च दरीदृश्यते स्म ।
अन्ततः भारतखण्डे हिमालयेभ्यः कन्याकुमारीपर्यन्तं
ये ये मुख्याः प्रदेशाः सन्ति, ते सर्वे
स्थानीयव्यवहृतभाषानुसारेण रचिता आसन् । तथापि तेषां निवासिनः प्रायशः स्वं स्वं
स्वरूपं भारतीय इति मन्यन्ते ।
आन्ध्रो वा भवतु, बांगालो वा भवतु,
पञ्जाबी भवतु एव वा, ते प्रायः सर्वत्र स्वस्य
स्वस्य भारतीयत्वं स्वीकुर्वन्ति, गर्वमपि अनुभवन्ति,
भारतस्य प्रगतिं समृद्धिं सफलतं च कामयन्ते |
तेषां मध्ये बहवः मुसुलमाना अपि गण्याः सन्ति । धीरे
धीरे तेऽपि भारतीया भवितुं गर्वं कुर्वन्ति ।
अधुना विश्वे हिन्दूधर्मस्य पुनरुत्थानं दृश्यते । यस्माद्
हिन्दूत्वमेव भारतीयत्वम् । भारतस्य मुसुलमाना अपि हज्जार्थं मक्कं गत्वा हिन्द्वी
इति स्वपरिचयं ददते ।
हिन्दु इति यः शब्दः, तस्य
प्राथमिकोऽर्थः भूगोलसम्पृक्तः, धर्मसम्पृक्तो न ।
तथापि सुदीर्घस्य इतिहासस्य संघर्षाणां फले सर्वत्र
अज्ञातवत् एकम् अदृश्यमानं स्रोतः वहति, येन अयं देशः एकत्वेन
व्याप्तः ।
तत् किम् ?
अहं इतो न विस्तारयामि समयस्य अभावात् । मम अन्यानि
कर्माणि अपेक्षन्ते । तथापि मुख्या वार्ता इयम् -- भारतीयता संस्कृतभाषा एव हि।
यत् स्रोतः भारतवर्षनामकं भौगोलिकप्रदेशं व्याप्नोति, तदेव संस्कृतभाषा ।
केन भारतनागरिकेण, बालेनापि,
पंजाब-सिन्ध-गुजरात-प्रदेशीयेन वापि, न ज्ञायतां
रबीन्द्रनाथस्य अपूर्वभाषायां भगवतः एतत् स्वरूपं -- "जन-गण-मन-अधिनायक जय हे,
भारत-भाग्य-विधाता !"?
एतत् वाक्यं भारतस्य सर्वासु मुख्यभाषासु बोधगम्यं
भवति,
काव्यार्थरूपत्वेन च अनुभूयते ।
संस्कृतमेव भारतस्य अदृश्यप्रायं अप्रतीतप्रायं
एकत्वस्रोतः ।
मम भारतदेशभक्तिः, मम
संस्कृतप्रेमित्वं च,
कृष्णभक्तेरेव किमपि अनपेक्षितं आनुषङ्गिकं फलम् ।