शन्वासरे मम पुत्रः कस्मिṁśचित् पर्वते कैश्चित् बन्धुभिः सह द्विचक्रिकायान-भ्रमणे निर्गतवान् । तान् बन्धून् त्यक्त्वा एकत्वेन अन्यस्मिन् वर्त्मनि प्रस्थितवान् । तत्र कुत्रापि स्वयानं स्वशिरस्त्राणं स्वस्य उपनेत्राणि च विक्षिप्य गाढारण्यदेशे प्रविष्टवान् । यदा स न प्रत्यावर्तत, तस्य बन्धवः सन्ध्यायां तत्र क्षेत्रपालान् विज्ञाप्य मम पुत्रस्य मातरमपि ज्ञापितवन्तः ।
इदानीं चत्वारि दिनानि विगतानि । पर्वतस्थानीयाः बहवः स्वेच्छासेवकाः, पोलीसाधिकारिणः हेलिकप्टरयानद्वारेण घ्राणचतुरैः कुक्कुरैश् च, अन्यैः उपायैरपि अन्विच्छन्तोऽपि तस्य अस्तित्वगन्धं न प्राप्नुवन् ।
मातुः मम च आशादीपः निर्वापितप्रायः । पूर्णयौवनप्राप्तः सुन्दरः बुद्धिमान् पुरुषः किमर्थं तिरोहित इव गतः ? किञ्चित् ज्ञातुं न शक्नुमः, तस्य अन्यः कोऽपि अवशेषः न प्राप्यते ।
No comments:
Post a Comment