Wednesday, January 5, 2022

न इति न भवेत्, अपि तु नवं भवेत्।

 सत्यं धर्मं च विहाय जगति अन्यत् सर्वं परिवर्तनशीलम्। प्रगत्यै वृद्ध्यै वा परिवर्तनम् अपेक्षितम् एव। परिवृत्तस्य परिवर्तमानस्य परिवर्तिष्यमाणस्य वा कालस्य अनुगुणं जनानां चिन्तने जीवने साधनेषु कार्येषु च परिवर्तनानि भविष्यन्ति। ये जनाः परिवर्तनं न इच्छन्ति तेषां कारणेन तत्सम्बद्धसंस्थाः तदाश्रितव्यवस्थाः तदीयजनाः वा कालान्तरे कालप्रवाहेण विनष्टाः भवेयुः। अतः संस्कृतशिक्षाक्षेत्रे आवश्यकपरिवर्तनेषु कर्तव्येषु अस्माभिः किमर्थं “न” इति चिन्त्यते?

चत्वारिंशतः वर्षेभ्यः पूर्वं 1981तमे वर्षे यदा संस्कृतसम्भाषणान्दोलनस्य आरम्भः अभवत् तदा बहवः संस्कृतप्राध्यापकाः, विशेषतया आधुनिकधारायाः महाविद्यालयानां विश्वविद्यालयानां संस्कृतप्राध्यापकाः अथवा पारम्परिकधारायाः महाविद्यालयानां संस्कृतसम्भाषणे अक्षमाः प्राध्यापकाः वदन्ति स्म यत् संस्कृतेन व्यवहारस्य आवश्यकता का ? आवश्यकता न अस्ति इति। दैनन्दिनव्यवहारेषु संस्कृतेन सम्भाषणेन संस्कृतम् असंस्कृतं जातं सत् विनष्टं भवेत् इत्यादिरूपेण तर्कान् यच्छन्ति स्म। परन्तु सौभाग्येन अद्य संस्कृतेन सम्भाषणस्य विषये न इति कथयितारः न सन्ति। यद्यपि ते स्वयं संस्कृतेन वदन्ति वा न वा, तथापि संस्कृतेन वक्तव्यम् इति तु वदन्ति। न तु न इति।

1987तमे वर्षे यदा विद्यालयमहाविद्यालयादिषु संस्कृतस्य संस्कृतमाध्यमेन पाठनस्य अभियानम् उद्घुष्टं तदा अपि बहवः संस्कृतशिक्षकाः प्राध्यापकाः च संस्कृतमाध्यमस्य महान्तं विरोधं कृतवन्तः। परन्तु अद्य तादृशः विरोधः न दृश्यते। सर्वे अपि संस्कृतेन पाठनीयम् इति तत्त्वशः स्वीकुर्वन्ति एव। तथा अपि प्रत्यक्षतः पाठने संस्कृतमाध्यमम् इतोपि न आगतम्। किमर्थम्? मम भाति, तेषां मनः इतोपि ‘न’, ‘न शक्यते’ इत्येव वदत् अस्ति इति।

इदानीं 2020-राष्ट्रियशिक्षानीतेः अनुसारं नवीनाः पाठ्यक्रमाः रचनीयाः सन्ति। पाठ्यक्रमे पाठ्यपुस्तकेषु पाठनविधौ च यानि यानि परिवर्तनानि अपेक्षतानि, यावता वेगेन परिवर्तनानि अपेक्षितानि च तानि परिवर्तनानि तावता वेगेन जायमानानि न सन्ति इति भासते। कार्यं न प्रचलति एव इति न वदामि। कुत्रचित् कार्यं प्रचलति अपि। केषुचित् विश्वविद्यालयेषु कुलपतयः इच्छन्ति चेत् अपि प्राध्यापकाः न इति वदन्ति। केषुचित् प्राध्यापकाः इच्छन्ति, परन्तु विभागाध्यक्षः न इच्छति। केषुचित् विभागाध्यक्षाः प्राध्यापकाः च इच्छन्ति चेदपि कुलपतिः न इच्छति। केषुचित् केपि न इच्छन्ति। कुत्रचित् कश्चन युवा उत्साहेन प्राक्शास्त्रिकक्ष्यायां सिद्धान्तकौमुद्याः स्थाने सोपानक्रमात्मकं भाषाप्रयोगसाहाय्यकम् अभ्यासकेन्द्रितम् आवश्यकताधारितं व्यावहारिकं व्याकरणं पाठयितुम् अपेक्षितं किञ्चित् नूतनसामग्रीनिर्माणं कर्तुं प्रस्तावं गोष्ट्याम् उपस्थापितवान्। परन्तु गोष्ठ्याः अनन्तरं सः ज्येष्ठैः सूचितः यत् कौमुद्याः अपेक्षया समीचीनतरं किं वा भवेत्? परिवर्तनं न आवश्यकम्। भवान् तूष्णीं तिष्ठतु इति।
इदानीम् अधीयानानां संस्कृतच्छात्राणां भविष्यं कथम् उज्वलं भवेत् तथा च नूतनतया छात्रैः संस्कृतपठनाय किमर्थम् आगन्तव्यम् इति बिन्दुद्वयं मनसि निधाय नूतनाः पाठ्यक्रमाः रचनीयाः। किमर्थं नूतनं चिन्तनीयम् इति प्रश्ने सति कारणं तु अद्यावधि ये पाठ्यक्रमाः पाठनविधयः च सन्ति तेषां द्वारा न छात्रसङ्ख्या वृद्धा न वा छात्रज्ञानस्तरः, प्रत्युत दिने दिने सर्वं ह्रीयमाणम् एव अस्ति इति। अतः इदानीम् अस्माभिः सर्वदा यस्य परिधेः अन्तः स्थित्वा चिन्तनं क्रियते तस्मात् परिधितः बहिः गत्वा चिन्तनं करणीयम्। नवसर्जनाय स्वस्य सुखक्षेत्रतः बहिः गन्तव्यं भविष्यति। इदानीं विद्यमानान् पाठ्यक्रमान् यथावत् रक्षन्तः प्रयोगरूपेण आजीविकाप्राप्तौ उपकारकाणां प्राचीनार्वाचीनविषयसम्मिलितानां नूतनपाठ्यक्रमाणां चिन्तनं कुर्याम। जगतः वास्तविकता संस्कृतज्ञैः अवगन्तव्या। Courses अनुसारं Job Creation न भवति। Job-market Demand अनुसारं Course Creation भवति इति एषा वास्तविकता। एतादृशचिन्तनाय यदि कस्यचित् मनः न इति वदति तर्हि तस्य बुद्धिः किमर्थम् एतत् न शक्यम् इत्यस्य शतं कारणानि अन्विष्येत्। प्रयत्नं कुर्मः, शक्येत अपि, प्रयोगं कृत्वा पश्यामः इति एतादृशरूपेण चिन्तनस्य प्रारम्भं करोति चेत् कथं करणीयम् इति एतदर्थं शतम् उपायान् मार्गान् वा बुद्धिः अन्विष्येत्।
नवसर्जनं करणीयं चेत् न इति चिन्तनं परित्यज्य आम् इति चिन्तनं करणीयम्। भाषाशिक्षणम् अस्माकं कार्यं न, पाठ्यक्रमपरिवर्तने कृते शास्त्ररक्षणं न भवेत्, संस्कृतमाध्यमेन पाठ्येत चेत् छात्राणाम् अवगमनं न भवेत्, सरलमानकसंस्कृतस्य प्रयोगेण संस्कृतस्य सौन्दर्यं न भवेत् अथवा संस्कृतं संस्कृतरूपेण न तिष्ठेत्, नूतनं कर्तुं गच्छति चेत् विद्यमानम् अपि न अवशिष्येत, छात्राणां बुद्धिमत्ता न अस्ति इति एवंरूपेण संस्कृतज्ञानां नेतिचिन्तनम् अद्य संस्कृतस्य विकासे मार्गावरोधकम् अस्ति।

विद्यालयेषु संस्कृतस्य पर्याप्ताः अवधयः न सन्ति, पाठ्यपुस्तकम् अनुकूलं न अस्ति, प्राचार्यः संस्कृतानुकूलः न अस्ति, छात्राणां रुचिः न अस्ति इति एवंरूपेण किं किं न अस्ति इति नकारमालाम् अहं आचत्वारिंशत्वर्षेभ्यः शृण्वन् एव अस्मि। तस्यां परिस्थितौ सद्यः किमपि परिवर्तनं भवेत् इत्यपि मम न भाति। परन्तु अस्मासु परिवर्तनम् अवश्यं भवितुम् अर्हति। अभावभाषणस्य स्थाने भावभाषणं भवितुम् अर्हति। निषेधात्मकचिन्तनस्य स्थाने विधायकचिन्तनं भवितुम् अर्हति। परदूषणस्य स्थाने आत्मावलोकनं भवितुम् अर्हति। रोदनस्य स्थाने उत्साहस्य उत्सेकः भवितुम् अर्हति। अवरुद्धमनसः स्थाने उद्घाटितमनः भवितुम् अर्हति। निराकरणस्य मानसिकतायाः स्थाने स्वीकारस्य मानसिकता भवितुम् अर्हति। गतानुगतिकतायाः स्थाने नवप्रयोगशीलता भवितुम् अर्हति। अस्मासु यानि सुपरिवर्तनानि स्युः तेषां कारणतः इतरेषु अपि गुणात्मकानि परिवर्तनानि भवेयुः एव।

न इति न भवेत्, अपि तु नवं भवेत्। विद्यालयम् आरभ्य विश्वविद्यालयं यावत्, प्राथमिकच्छात्रम् आरभ्य शोधच्छात्रं यावत्, शिक्षकम् आरभ्य प्राध्यापकं यावत्, भाषाम् आरभ्य शास्त्रं यावत्, शिशुसाहित्यम् आरभ्य वेदान् यावत्, श्रवणम् आरभ्य लेखनं यावत्, अनुवादम् आरभ्य स्वतन्त्रकृतिरचनां यावत् सर्वेषु एतेषु विभागेषु नवचिन्तनं भवेत्, नवगवेषणं भवेत्, नवसर्जनं भवेत् च येन संस्कृतशिक्षाक्षेत्रे नवोत्थानं भवेत्।

Tuesday, January 4, 2022

श्रीलजीवगोस्वामिनां तिरोभावतिथौ

नामश्रेष्ठं।।।

नानाशास्त्रविचारणैकनिपुणौ ।।।

जै श्रीराधेश्याम 

प्रथमतः श्रीजीवाध्यायनसंस्थानस्य प्रतिष्ठातृप्राचार्यप्रवराणां श्रीसत्यनारायणदासृबाबाजीमहाराजानां वन्दनीयचरणेषु मम सविनयदण्डवन्नतीः वारं वारं विदधामि ।

तत्पश्चात्  अन्येषां पण्डितप्रवराणां अध्यापकानां निरन्तरभजननिरतानां वैष्णवानां पादमूले सदैन्यप्रणामं ज्ञापयामि

तथा राधाकुण्डतः आगतानां वृन्दावनधामशरणागतानां अन्यान्यदेशीयानां च सर्वेषां वैष्णवशास्त्रपठनपाठनानुरागिनां विद्यार्थिनां चरणेषु प्रीतिपूर्वकं नमनं करोमि।

सर्वेषां स्वागपूर्वकं अभिनन्दयामि। 

अद्य जीवसंस्थानस्य  अधिष्ठातृदेवता कल्पानां श्रीलजीवगोस्वामिनां तिरोभावतिथौ वार्षिकोत्सवः मानयामहे । यद्यपि दैवक्रमे  अहं दूरदेशे वर्ते, भवतां अपरोक्षदर्शनं प्राप्तुं न शक्नोमि, साक्षात् चरणधूलिं स्वगात्रे लेपनं कर्तुं न शक्नोमि, 

तथापि विपुलानन्दसहकारे आधुनिकतन्त्रयोगेन भवतां समक्षे उपस्थातुं शक्नोमि। इदमपि  एकः  चमत्कारविशेषः । 

इमां च प्रार्थनां करोमि यथा शीघ्रमेव प्रत्यावृत्य वृन्दावनस्य पवित्ररजसि लुण्ठनं कर्तुं शक्ष्यामि ।

अद्य द्वित्रान् शब्दान् संस्कृतभाषायां यथाशक्ति वक्तुं प्रयतिष्ये यस्माद् अस्य  जीवसंस्थानस्य  एकं प्रधानं प्रयोजनं नियोगो वा संस्कृतभाषायाः प्रचारः प्रसारः च भवति ।

अस्माकं सम्प्रदायस्य शिक्षागुरवः षड् गोस्वामिनः सर्वे संस्कृतभाषायां किमर्थं लिखितवन्तः ? मध्ययुगीये भारतव्यापक-भक्त्यान्दोलने प्रायशः लौकिकभाषाः प्रयुक्ताः आसन् । बङ्गदेशे गौडदेशे च पदावलीकीर्तनं अत्यन्तजनप्रियतां अगात् । व्रजभाषा  बहवः वाणीग्रन्थाः जनतां रसाप्लुतां चक्रुः । तथापि गौडीयवैष्णवसिद्धान्तं सुप्रतिष्ठितं कर्तुं तथा अमलं प्रमाणं पुराणममलं श्रीमद् भागवतशास्त्रं समधिकं मर्यादां विधातुं, तत्रापि समग्रभारतवर्षे तत् सर्वं चैतन्य महाप्रभोः मनोभीष्टं प्रचारयितुं तद् अकुर्वन् ।

इदानीं मह्यं एवं विभाति यत् भारतवर्षे नवयुगः उदीयमानः अस्ति । अहं भारतवर्षस्य क्रमिकपरिवर्तनं सुदीर्घं पंचाशत् वर्षाणि यावत् अवलोकयामि । यद्यपि अधुना कलियुगस्य प्रभावः प्रबलतरः दृश्यते, तदपि युगपत् भारतवर्षे सर्वत्र सनातनधर्मस्य विविधासु शाखासु नूतनः उत्साहः विजृम्भते । नवं स्वाभिमानमपि दृश्यते। भारतस्य सुदीर्घः इतिहासः चित्ताकर्षिका संस्कृतिश्च यथा  एकं तेजस्वि प्रेरणं ददति। भारतः वास्तविकायाः स्वाधीनतायाः दिशि प्रयातुं  उद्यतः ।


तस्मिन् उत्साहे  एकः प्रबलतरः अङ्गः संस्कृतभाषायाः पुनरुज्जीवनम्  ।

संस्कृतस्य यथा प्रौढं साहित्यिकं स्वरूपं विद्यते, तथा तस्य सर्वजनीनं सरलं स्वरूपं अपि अस्ति। अधिकतराः लोकाः तं आत्मसात्कर्तुं प्रवर्तन्ते । संस्कृतसंभाषणस्य आन्दोलनं भारतं व्याप्नुमानं विराजते ।

वयमपि तस्यान्दोलनस्य भागिनः भवितुं अर्हामः । गोस्वामिनां विशेषतः श्रीजीवगोस्वामिनां मनोभीष्टं यथा स्यात् तथा प्रयासं प्राप्तुं अर्हामः ।

हरिनामामृते श्रीजीवप्रभुः लिखितवान्

कृष्णमुपासितुमस्य स्रजमिव नामावलिं तनवै ।

त्वरितं वितरेदेषा तत्साहित्यादिजामोदम् ॥१॥