Tuesday, January 4, 2022

श्रीलजीवगोस्वामिनां तिरोभावतिथौ

नामश्रेष्ठं।।।

नानाशास्त्रविचारणैकनिपुणौ ।।।

जै श्रीराधेश्याम 

प्रथमतः श्रीजीवाध्यायनसंस्थानस्य प्रतिष्ठातृप्राचार्यप्रवराणां श्रीसत्यनारायणदासृबाबाजीमहाराजानां वन्दनीयचरणेषु मम सविनयदण्डवन्नतीः वारं वारं विदधामि ।

तत्पश्चात्  अन्येषां पण्डितप्रवराणां अध्यापकानां निरन्तरभजननिरतानां वैष्णवानां पादमूले सदैन्यप्रणामं ज्ञापयामि

तथा राधाकुण्डतः आगतानां वृन्दावनधामशरणागतानां अन्यान्यदेशीयानां च सर्वेषां वैष्णवशास्त्रपठनपाठनानुरागिनां विद्यार्थिनां चरणेषु प्रीतिपूर्वकं नमनं करोमि।

सर्वेषां स्वागपूर्वकं अभिनन्दयामि। 

अद्य जीवसंस्थानस्य  अधिष्ठातृदेवता कल्पानां श्रीलजीवगोस्वामिनां तिरोभावतिथौ वार्षिकोत्सवः मानयामहे । यद्यपि दैवक्रमे  अहं दूरदेशे वर्ते, भवतां अपरोक्षदर्शनं प्राप्तुं न शक्नोमि, साक्षात् चरणधूलिं स्वगात्रे लेपनं कर्तुं न शक्नोमि, 

तथापि विपुलानन्दसहकारे आधुनिकतन्त्रयोगेन भवतां समक्षे उपस्थातुं शक्नोमि। इदमपि  एकः  चमत्कारविशेषः । 

इमां च प्रार्थनां करोमि यथा शीघ्रमेव प्रत्यावृत्य वृन्दावनस्य पवित्ररजसि लुण्ठनं कर्तुं शक्ष्यामि ।

अद्य द्वित्रान् शब्दान् संस्कृतभाषायां यथाशक्ति वक्तुं प्रयतिष्ये यस्माद् अस्य  जीवसंस्थानस्य  एकं प्रधानं प्रयोजनं नियोगो वा संस्कृतभाषायाः प्रचारः प्रसारः च भवति ।

अस्माकं सम्प्रदायस्य शिक्षागुरवः षड् गोस्वामिनः सर्वे संस्कृतभाषायां किमर्थं लिखितवन्तः ? मध्ययुगीये भारतव्यापक-भक्त्यान्दोलने प्रायशः लौकिकभाषाः प्रयुक्ताः आसन् । बङ्गदेशे गौडदेशे च पदावलीकीर्तनं अत्यन्तजनप्रियतां अगात् । व्रजभाषा  बहवः वाणीग्रन्थाः जनतां रसाप्लुतां चक्रुः । तथापि गौडीयवैष्णवसिद्धान्तं सुप्रतिष्ठितं कर्तुं तथा अमलं प्रमाणं पुराणममलं श्रीमद् भागवतशास्त्रं समधिकं मर्यादां विधातुं, तत्रापि समग्रभारतवर्षे तत् सर्वं चैतन्य महाप्रभोः मनोभीष्टं प्रचारयितुं तद् अकुर्वन् ।

इदानीं मह्यं एवं विभाति यत् भारतवर्षे नवयुगः उदीयमानः अस्ति । अहं भारतवर्षस्य क्रमिकपरिवर्तनं सुदीर्घं पंचाशत् वर्षाणि यावत् अवलोकयामि । यद्यपि अधुना कलियुगस्य प्रभावः प्रबलतरः दृश्यते, तदपि युगपत् भारतवर्षे सर्वत्र सनातनधर्मस्य विविधासु शाखासु नूतनः उत्साहः विजृम्भते । नवं स्वाभिमानमपि दृश्यते। भारतस्य सुदीर्घः इतिहासः चित्ताकर्षिका संस्कृतिश्च यथा  एकं तेजस्वि प्रेरणं ददति। भारतः वास्तविकायाः स्वाधीनतायाः दिशि प्रयातुं  उद्यतः ।


तस्मिन् उत्साहे  एकः प्रबलतरः अङ्गः संस्कृतभाषायाः पुनरुज्जीवनम्  ।

संस्कृतस्य यथा प्रौढं साहित्यिकं स्वरूपं विद्यते, तथा तस्य सर्वजनीनं सरलं स्वरूपं अपि अस्ति। अधिकतराः लोकाः तं आत्मसात्कर्तुं प्रवर्तन्ते । संस्कृतसंभाषणस्य आन्दोलनं भारतं व्याप्नुमानं विराजते ।

वयमपि तस्यान्दोलनस्य भागिनः भवितुं अर्हामः । गोस्वामिनां विशेषतः श्रीजीवगोस्वामिनां मनोभीष्टं यथा स्यात् तथा प्रयासं प्राप्तुं अर्हामः ।

हरिनामामृते श्रीजीवप्रभुः लिखितवान्

कृष्णमुपासितुमस्य स्रजमिव नामावलिं तनवै ।

त्वरितं वितरेदेषा तत्साहित्यादिजामोदम् ॥१॥


No comments: