(3)
तृतीयोऽङ्कः
दिग्विजयविजिगीषा
(प्रविशति पीनकायः
कश्चिद्ब्राह्मणः)
ब्राह्मणः – अहं रूपनारायणः चतुर्वेदी । मत्सदृशः पण्डितः भारतवर्षे कुत्रापि नास्ति । सर्वत्र वेदवित्-श्रेष्ठानां समक्षे पराजयपत्रं
गृहीत्वा दिग्विजयीति ख्यातिं प्राप्तवान् । (समन्तादवलोक्य) इदानीं वृन्दावनम् आगतोऽस्मि, यतः अत्र कश्चित् विद्वत्तमः रूपगोस्वामीनामकः
साधुपुरुषो वसतीति मया श्रुतम्। विचारवितण्डे निज्योज्य तमपि पराजित्य तस्मात् पत्रं
प्राप्स्यामि । (परिक्रमति)
(श्रीजीववीज्यमानं श्रीरूपगोस्वामिनां
दूरतो दृष्ट्वा) – असौ एव स भवेत्। अहमुपसर्पामि
। अहं रूपनारायणः चतुर्वेदी । मत्सदृशः पण्डितः भारतवर्षे कुत्रापि नास्ति । सर्वत्र वेदवित्-श्रेष्ठानां समक्षे पराजयपत्रं
गृहीत्वा दिग्विजयीति ख्यातिं प्राप्तवान् । भवत्सकाशे पराजयपत्रं ग्रहीतुमिच्छामि ।
तर्कयुद्धे अस्माभिः सह शास्त्रार्थस्य यथायथं सिद्धान्तं अहं प्रतिष्ठापितुं
प्रवृत्तोऽस्मि । सर्वमतान् पराजित्सु अहं स्वमतं स्थापयिष्यामि ।
भोः
वैष्णवप्रधानख्यातनामा श्रीरूपगोस्वामिन् प्रणामाः । अहं भवन्तं तर्कयुद्धे
तिरस्कृत्य भवतः स्वहस्तलिखितं पराजयपत्रं ग्रहीतुं उपनीतोऽस्मि ।
रूपः – भूसुरवर ! तत्रभवतां पाद्पद्मे सविनयं
प्रणामं स्वीकुरुध्वम् । वयं मूर्खाः किं जानीमः? अस्मासु
भवतः शिष्यो भवितुं योग्यता नास्ति ।
पण्डितः – भवता रसामृतसिन्धुनामको लक्षणग्रन्थो
रच्यमानो भवति इत्यहं श्रुतवान् ।
रूपः – अथ किम् ।
पण्डितः – पाण्डुलिपिं द्रक्ष्ये, कियदंशं पठितुमाज्ञापयतु । (किञ्चित् पठित्वा) हंहो भवतः काव्यप्रतिभा अवश्यं
वर्तते । (अधिकं किञ्चिदग्रे पठित्वा) किन्तु किमिदं पठामि ?
“भुक्तिमुक्तिस्पृहा यावत् पिशाची हृदि वर्तते ।“
भुक्तिमुक्तिस्पृहानां पिशाचीत्वं कथमारोपयसि ? तत् कथं सम्भवति ! चतुर्णां पुरुषार्थानां
मध्ये कामश्च मोक्षश्च पुरुषार्थौ इति ख्यातौ । ते मनुष्यमात्रस्य मङ्गलं साधयतः। वेदादिशास्त्रेषु
प्रयोजनीभूतयोः भुक्तिमुक्त्योः कथं पिशाचीत्वं भवेत् । भवत एतद् वाक्यं अपौरुषेयवेदशास्त्रविरुद्धं, अपराधो वा भवति । एषोऽपराधो
स्वस्य समाजस्य च अमङ्गलं उत्पादयिष्यति । हा हा प्रमादः !
श्रीजीवः (स्वगतम्) –
किं साहसं करोति एष पण्डितंमन्यो धृष्टो ब्राह्मणः । मम गुरोः महिमानं न जानाति
। असहनीयम् एतत् ।
श्रीरूपः – आं, समिचीनं भवतो वाक्यम्। एतत् पाठान्तरमपि प्रस्तूयते – “व्याप्नोति हृदयं
यावद् भक्तिमुक्तिस्पृहाग्रहः” इति। एषः पाठः भवते रोचते ?
पण्डितः – साधु साधु ! अयं पाठो निर्दोषः स्यात् ।
श्रीरूपः – इदानीं यमुनासलिले स्नात्वा
आगच्छ । अहं पराजयपत्रं विलिख्य भवतो हस्ते अर्पयिष्यामि ।
ब्राह्मणः – आगच्छामि । (परिक्रमति)
(रूपः लिखितुम् आरभते । श्रीजीवः पङ्खं नामयन् --)
श्रीजीवः – जय राधे ! अहमपि स्नातुं यायाम् ।
आज्ञापयन्तु श्रीगुरुचरणाः ।
श्रीरूपः – स्वच्छन्दं गच्छ । विलम्बं मा कुरु ।
(परिक्रमन् ब्राह्मणमनुसरति ।)
श्रीजीवः – भोः ब्रह्मन्, प्रणमामि ।
ब्राह्मणः – आयुष्मान् भव । कस्त्वम्
? किमिच्छसि ?
जीवः – अहं कोऽपि श्रीरूपगोस्वामिनां
निकृष्टो दासोऽस्मि । मम श्रीगुरुचरणैः वेदशास्त्राणामपराधं कदापि कर्तुं न शक्यते । न सम्भाव्यते
।
ब्राह्मणः – एवमहमपि कथितवान् । वेदशास्त्राणां
कर्मज्ञानकण्डयोरपमानकारी पिशाचीशब्दः ।
श्रीजीवः – नहि नहि ! सर्ववेदान्तशिरोमणीभूते
श्रीमद्भागवतपुराणे मोक्षावाञ्छा न्यक्कृता | मोक्षस्य नरकतुल्यत्वमुक्तमेव । यथा –
नारायणपराः सर्वे न कुतश्चन बिभ्यति।
स्वर्गापवर्गनरकेष्वपि
तुल्यार्थदर्शिनः॥
भागवते कैतवधर्मः प्रोज्झित इत्यप्युक्तम् । मोक्षस्य
तत्र कैतवत्वमिति श्रीधरस्वामिपादानां निर्णयः -- “प्र-शब्देन मोक्षाभिसन्धिरपि निरस्तः” इति । यद् यद् भगवद्विमुखं करोति, तत् कैतवम् । तस्यैव पिशाचीत्वम् ।
अतएव कर्मज्ञानवर्त्मनी उभे पिशाचीवत् त्याज्ये इति सिद्धम् । यदेव भगवद्विमुखीकरोति, तस्यैव पिशाचीत्वं स्वीकर्तव्यम् ।
अत एव भुक्तिमुक्तिस्पृहायाः पिशाचीत्वं सर्ववेदवेदान्तसिद्धम् ।
ब्राह्मणः – आं, तव कथा समीचीना ।
श्रीजीवः – महाशय ! सर्ववेदान्तसारस्य भागवतस्य तात्पर्यं नावगम्य, मम श्रीगुरुचरणानां गभीराशयं
च नावगम्य, भवान् तत्स्थाने अपराधभाजनमभवत् ।
ब्राह्मणः -- आम आम । त्वं युक्तं वदसि ।
श्रीजीवः -- दैन्यवशतः मम गुरुदेवः तर्कादिपराङ्मुखो भवति । तस्मात् भवतो भ्रमः तैः न दर्शितः
।
ब्राह्मणः – इदानीं यमुनायाः पवित्रतोये
स्नानं करोमि । ममेष्टदेव-सूर्यनारायणस्थाने बुद्धिं याचित्वा एतद्विषयं विचारयिष्यामि
।
श्रीजीवः – आज्ञापयतु भवान् ।
ब्राह्मणः – गच्छ । (जीवो निष्क्रामति |)
ब्राह्मणः (विस्मितः, स्वगतम् ) - असौ युवकः कः ? अद्भुतपाण्डित्यं तीक्ष्णबुद्धित्वं
च । स तत्रभवतां कश्चित् शिष्यः स्यात् । यस्य तादृशः शिष्यः, स मम नमस्कार्यः । तस्मात् पराजयपत्रं
ग्रहीतुं न पारयामि ।
(ब्राह्मणः स्नानाद्यभिनयं करोति, गायत्रीजपादिकृत्याणि समापयति । पुनः श्रीरूपस्य पार्श्वमुपक्रामति ।)
रुपः (उत्थाय) - भो भूदेव ! आगताः सन्ति तत्रभवन्तः । बाढं । भवतः पराजयपत्रं लिखितं मया । गृहाण ॥ (पत्रं दातुमिच्छति
।)
ब्राह्मणः – नहि नहि । भवतः श्लोकस्य
प्रथमपाठो युक्तियुक्त आसीत् । इदानीं स्वीकरोमि।
श्रीरूपः – कथमेतत् ?
ब्राह्मणः – असौ बालकस्तव सुयोग्यशिष्यो
भवेत् । यस्यैवं शास्त्रपारङ्गतो विद्वान् शिष्य:, स ममापि गुरुर्भवितुमर्हति । न किमपि
पराजयपत्रं ग्रहीष्यामि । ममापराधं क्षमस्व । गच्छामि । (प्रणामं कृत्वा निष्क्रामति ।)
(श्रीरूप आश्चर्यमभिनयति । हठात् श्रीजीव उपतिष्ठति ।)
श्रीरूपः – त्वं किं अमुना पण्डितेन
सह मम श्लोकस्य व्याख्याविचारं अकरोः ?
श्रीजीवः (भीतः) – एवमेव । श्रीगुरुचरणाः यथा वदन्ति।
श्रीरूपः – मूर्ख ! अत्र वृन्दावने
शास्त्रतर्कादि भक्तिपथपथिकानां भावविरुद्धम् । अहम् एतत् सर्वं सिन्धोः पूर्वविभागे
लिखितवान् । “तर्कोऽप्रतिष्ठ” इति प्रसिद्धम् । एतादृशं त्वद्गुरुतुल्यं वृद्धमहात्मानं पराजेतुं इच्छा तव महान्
अनर्थो भवति । जिगीषा अहङ्कारस्य लक्षणम् । तद् भक्तिविरोधि भवति । श्रीचैतन्यप्रवर्तितसम्प्रदायस्य
मूलीभूतमभिधेयवाक्यम् न श्रुतं त्वया ?
तृणादपि सुनीचेन तरोरपि सहिष्णुना ।
अमानिना मानदेन कीर्तनीयः सदा हरिः
॥
इतो गच्छ । अत्र स्थातुमधिकारो नास्ति तव । अहं त्वादृशस्य मूर्खस्य असदाचारं मर्यादालङ्घनं
च न सोढुं पारयामि । इतो गच्छ । विलम्बं मा
कुरु ॥
श्रीजीवः (रुदित्वा) – प्रभो ! तस्य भवदपमानं
न सोढुं शक्नुवम् । कृपां कुरु । माम् नित्यसेवकं भवत्पार्श्वे रक्षस्व । अहं तव चरणसेवां
आमरणं करिष्ये । ममान्या न कापि वाञ्छा । कृपां कुरु ॥
श्रीरूपः (स्वगतम्) – वृन्दावनस्योज्ज्वलप्रेमाणं
प्राप्तुं दैन्यभावं विना न सम्भवति । एष कठोराचरणस्य मुहूर्त एव । (प्रकाश्यम्) पाण्डित्याभिमानित्वं
वैष्णवमार्गे महाननयः । निर्जने गत्वा आत्मानं परीक्षस्व । अहमिकां निर्मूलय । तदा
तव वैष्णवसङ्गयोग्यत्वं जनिष्यते ।
यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसम्प्रयुक्तम्
॥
श्रीजीवः (रुदित्वा) – प्रभो ! करुणां कुरु मयि । त्वं करुणामयः कथं मां त्यजसि ? (इति निष्क्रान्तः ।)
(रूपगोस्वामी च शिरो नमय्य शुष्कं क्रन्दति ।)
इति जीवे दया नाटके दिग्विजयविजिगीषा नाम तृतीयोऽङ्कः