(2)
द्वितीयोऽङ्कः
वृन्दावनागमनम्
जीवः (गायन् गायन्) –
कदा वृन्दारण्ये मिहिरदुहितुः सङ्गमाहिते
मुहुर्भ्रामं भ्रामं चरितलहरीं गोकुलपतेः ।
लपन्नुच्चैरुच्चैर्नयनपयसां वेणिभिरहं
करिष्ये सोत्कण्ठं निविडमुपसेकं विटपिनाम्
॥
अवशेषे अहं वृन्दावनधाम प्राप्तवान् अस्मि । आनन्दोत्फुल्लितोऽहं संवृत्तः । इदानीमत्रागतस्य मम
स्वप्नः सत्योऽभवत् । मम जन्म सफलमभूत् । सम्प्रति मम पितृव्यौ कुत्र इति प्रष्टव्यम् । अत्रागच्छति कश्चित्
स्थानीयलोकः। तं पृच्छामि । (उपसर्प्य) हे भ्रातः ! राधे राधे ! अत्र भक्तप्रवरौ रूपसनातननामकौ कुत्र वसतः ? भवान् जानाति किम् ?
व्रजवासी: – अथ किम् ! तौ वृन्दावने प्रसिद्धौ
। सर्वे तौ जनन्ति । तौ तदनुगतजना अपि लुप्ततीर्थानि कृष्णलीलास्थलीश्चाविष्कृत्य
धाम्नो मङ्गलं साधयन्ति ।
जीवः – कुत्र वसतस्तौ ?
व्रजवासी: – अस्मात् स्थानात् अनतिदूरः केशीघाटोऽस्ति । तत्र श्रीरूपप्रभुः सम्प्रति
ग्रन्थान् रचयति । तत्र गत्वा तस्य दर्शनं प्राप्स्यते।
जीवः – जय राधे ! धन्यवादः ! (परिक्रमति) – अत्र यमुना देवी दृश्यते । (प्रणमति) हा यमुनादेवि ! मातः ! कृपां कुरु ।
जयति तरणिपुत्री धर्मराजस्वसा या
कलयति मथुरायाः सख्यमत्येति गङ्गाम्।
मुरहरदयिता तत्पादपद्मप्रसूतं
वहति च मकरन्दं नीरपूरच्छलेन॥
जीवो (दूरतो श्रीरूपं दृष्ट्वा) – कथमसौ उज्ज्वलरूपः
कश्चिद्वृद्धो ध्यानमग्नो भक्तः यमुनापुलिने दृष्टिपथं गतः । कोऽसौ ? ननु स मम पितृव्यः श्रीरूपो भवेत्
। (तं प्रणमति)
श्रीरूपो (ध्यानतो व्युत्तिष्ठति । श्रीजीवं दृष्ट्वा वदति च) – कस्त्वं वत्स ? कुत आयातः ?
श्रीजीवः – प्रभो ! एषोऽहं तव
कनिष्ठानुजस्य श्रीमदनुपमस्य पुत्रोऽस्मि । अहमिदानीं काश्या आगतः ।
श्रीरूपः – कथमत्रागमनं तव ?
श्रीजीवः – स्वप्ने
नित्यानन्दप्रभुनादेशं प्राप्य, अहं नवद्वीपवाराणस्योः न्यायवेदान्तादि शास्त्राणि पठित्वा, तत्रभवतां ससनातनानां सकाशे वैष्णवशास्त्राणि अध्येतुं वृन्दावनमुपातिष्ठम् ।
श्रीरूपः (स्मित्वा) – कथं ? तव वेदान्ताध्ययने रुचिर्नास्ति ?
श्रीजीवः – यथा
सार्वभौमभट्टाचार्यैरवगतम्,
अहमपि तथा मन्ये ।
श्रीरूपः – कथं तत् ?
श्रीजीवः –
ज्ञातं काणभुजं मतं परिचितैवान्वीक्षिकी शिक्षिता
मीमांसा विदितैव साङ्ख्यसरणिर्योगे वितीर्णा मतिः।
वेदान्ताः परिशीलिताः सरभसं किं तु स्फुरन्माधुरी-
धारा काचन नन्दसूनुमुरली
मच्चित्तमाकर्षति॥
सर्वे गौडदेशवासिनो वैष्णवा भवन्तौ प्रशंसन्ति । ते वदन्ति यत् भवतोरुपरि
श्रीचैतन्यमहाप्रभोः कृपावृष्टिर्निपतिता । तथा भवन्तौ अत्र वृन्दावने
सच्छास्त्राणि रचयतः । एतैः शास्त्रैः मायावादतमसाच्छन्नो देशः पुनः
भक्तिसिद्धान्तसूर्यकिरणैः आलोकितो भविष्यति । अस्मिन् श्रीचैतन्यदेवस्य सेवाकार्ये अहमपि भवतोरनुगतसेवको
भवानि। अहं भवतो दासानुदासो भवितुमिच्छामि।
श्रीरूपः – उत्तमम् । शुभा वार्तैव एषा । अहमिदानीं
भक्तिरसामृतसिन्धुनामकग्रन्थस्य रचने अभिरतः। त्वं मम सहायतां कर्तुमर्हसि।
(सबाष्पनयनः श्रीजीव आनन्देन श्रीरूपस्य पार्श्वे उपविशति। रूपस्तस्मै
रसामृतसिन्धोः कञ्चित् श्लोकं दर्शयति।)
No comments:
Post a Comment