(5)
पञ्चमोऽङ्कः
जीवपूर्णमनोरथम्
(सनातनगोस्वामी कृष्णनामानि कीर्तयन् नन्दघाटनामकग्रामं प्रविशति ।)
सनातनः – नन्दघाटमागतोऽस्मि । अत्र वरुणेन गोपराजनन्दनस्य
अपहरणं संवृत्तम् । मध्याह्नसमय आपतितः । कुत्र भिक्षां करिष्यामि ? ग्रामे गत्वा पश्यामि
। व्रजवासिनीनां कृपया
मधुकरीं कृत्वा भजनं कर्तुं शक्नोमि । ताः सर्वा राधासखीस्वरूपा एव ।
व्रजवासिनीनां करुणया किञ्चिदश्नीयाम् ।
(गृहपार्श्वे स्थित्वा
स गातुं आरभते ।)
कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण हे !
कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण
कृष्ण हे !
सनातनः – मातः ! भिक्षां देहि ।
अभुक्तोऽस्मि । कृपां कुरु ।
स्त्री – बाबा ! आगच्छ ।
दास्यामि गृहाण । रोटिकां गृहाण । व्यञ्जनमपि दास्ये ? तिष्ठ शीघ्रमायास्ये ।
सनातनः – मातः ! एकैव रोटिका दीयताम्
। अहम् एकस्मात् गृहाद् अधिकम् न गृह्नामि । मम व्रतम् इदम् ।
स्त्री – त्वद्विधो एको युवको वैरागी
अमुष्यां गुहायां वसति । स तीव्रवैराग्यम् अभ्यस्यति । किञ्चिन्मात्रं गोधूमचूर्णं
जलेन मिश्रितं पाकं विना खादति । रन्धनमपि न कुरुते ।
सनातनः – कथम् ? कः स युवकः सन्न्यासी ?
स्त्री – स कतिचित् दिनेभ्यः पूर्वं
अत्र आगतवान् । तस्य परिचयं न जानामि ।
सनातनः (स्वगतम्) – असौ अस्माकं प्रियो जीवको भवितुमर्हति। (प्रकाशम्) गच्छामि द्रष्टुम्।
(परिक्रामति | जीवगोस्वामिनं दृष्ट्वा) हाय हाय ! कृशकायोऽयं युवको जीव एव। (तं प्रति धावति आलिङ्गति च) हे
जीव ! तात ! तव शरीरमतिक्षीणम् अभवत्। त्वं कथं जीवसि ?
(जीवगोस्वामी तं प्रणमति)
वैराग्ययुग्भक्तिरसं प्रयत्नैरपाययन्मामनभीप्सुमन्धम् ।
कृपाम्बुधिर्यः परदुःखदुःखी सनातनं तं प्रभुमाश्रयामि
॥
सनातनः -- वत्स ! शान्तो भव । मया सह चल । रूपस्तवागमनमपेक्षते । स त्वां क्षमते । वैष्णवाचारं
जगति शिक्षयितुं एतं लीलामभिनयमकरोत् । त्वं तस्य पार्श्वे गत्वा तं सेवस्व । सर्वं
मङ्गलं भविष्यति ।
(हठात् श्रीरूप आविर्भवति) – हे जीव ! अहं क्षणमपि त्वां
न व्यस्मरम् । अहं निरन्तरं तव पार्श्वे अतिष्ठम् । अद्यैव वृन्दावनमागच्छ । तत्र स्थित्वा
भक्तिमयपुस्तकानि रचयिष्यसि ।
श्रीजीवः – इदानीमेव भागवतसन्दर्भनामग्रन्थस्य
बीजं मम मनसि आविर्भूतम् । तस्मिन् सम्बन्धाभिधेयप्रयोजनतत्त्वानि भागवतशास्त्रप्रमाणभूतैः
श्लोकैः सज्जीकरिष्यते । तत्र भागवतस्य यथार्थसिद्धान्तं सर्वेभ्य्ः सुस्पष्टं भविष्यति
।
रूपसनातनौ – त्वं कलियुगपावनावतारस्य
श्रीकृष्णचैतन्यमहाप्रभोः,
आवयोश्च कृपापात्रम् । तव पाण्डित्यं च प्रेमभक्तिश्च सर्वदा उज्ज्वला वर्तेत ।
किं अन्यं कमपि वरं याचिष्यसे ?
श्रीजीवः – आं । वृन्दावने स्थिताः
सर्वे भक्ताः श्रीश्रीराधामाधवयोः कृपां प्राप्नुवन्तु । यथा भवान् स्वयं व्यलिखत्
श्रीललितमाधवनाटके भरतवाक्यम् –
चिराद् आशामात्रं त्वयि विरचयन्तः स्थिरधियो
विदध्युर्ये वासं मधुरिमगभीरे मधुपुरे ।
दधानः कैशोरे वयसि सखितां गोकुलपतेः
प्रपद्येथास्तेषां परिचयमवश्यं नयनयोः
॥
(राधे गोविन्द इति नामानि कीर्तयन्तः प्रस्थिताः सर्वे ।)
इति जीवे दया नाटके जीवपूर्णमनोरथ-नामकः पञ्चमोऽङ्कः समाप्तः
।
सम्पूर्णमिदं जीवेदया नाटकम् ।
No comments:
Post a Comment