जीवे दया नाटकम्
श्रीकृष्ण कृष्णचैतन्य ससनातनरूपक ।
गोपालरघुनाथाप्तव्रजवल्लभ पाहि माम् ॥
(1)
प्रथमोऽङ्कः
गृहत्यागः
नान्दी --
गुप्तान् अर्थान् अतिनिरमलान् आकलय्य प्रकाश्य
हस्तन्यस्तामलकमिव यः श्रीशुकोक्तं चकार ।
श्रीमद्रूपाग्रजकरुणया जीवजीवातुरूपं
श्रीमज्जीवं भज भवभयात् तारकं तं मनो मे ॥
सूत्रधारः – अलमतिविस्तरेण ! (समन्तादवलोक्य) हन्त ! दृश्यतां, दृश्यताम् ! कथमत्र आगता असङ्ख्यसाधुवैष्णवानां
मण्डली । अत्र वृन्दावन-राधाकुण्ड-निवासिनः भजनानन्दिनः विद्यार्थिनः, तेषामध्यापकानां च, चैतन्यदेवस्य कृपापात्राणां
श्रीरूपसनातनानुगप्रमुखानां गौडीयवैष्णवसम्प्रदायाचार्यप्रवराणां विश्ववैष्णवराजसभाया
अधिष्ठातॄणां अस्माकं तत्त्वज्ञानपथप्रदर्शकानां श्रीश्रीजीवगोस्वामिनां गुणान् गातुं
श्रोतुं च समागताः। ते सर्वे उत्कण्ठिताः सन्तः अस्माकं कृतिं प्रत्यक्षीकर्तुं
इच्छन्ति ।
नटी (प्रविश्य) आं, इदानीं कां कृतिं दर्शयिष्यामः ?
सूत्रधारः अद्य श्रीजीवगोस्वामिप्रभुपादानां तिरोभावतिथिः, वयं तद्गतप्राणानां तद्वाक्यमात्रैकनिष्ठानां श्रीजीवसंस्थाया महान्तमहाराजानां प्रीत्यर्थे श्रीजीवगोस्वामिनां पारावारविहीनस्य अनन्तवारिधिसदृशस्य जीवनचरितस्य एकांशमात्रं अभिनेतुं प्रवृत्ताः स्मः ।
नटी -- ततः शीघ्रं आरभामहै !
सूत्रधारः -- कुशीलवाचार्य ! प्रथमतः, वयं अस्माकं
संस्थाचार्यं जीवसंस्थायां प्रस्थापकं प्रणामं कुर्मः । तेषां तथा एषां भक्तानां च
आशीरपि प्रार्थयाम ! (उभौ करे बद्ध्वा प्रणमतः)
वाञ्छाकल्पतरुभ्यश्च कृपासिन्धुभ्य
एव च ।
पतितानां पावनेभ्यो वैष्णवेभ्यो
नमः ॥
[नेपथ्ये] हा हन्त! किं भविष्यति मम पुत्रः ?
सूत्रधारः -- किम् इदं श्रूयते ?
नटी -- काचित् माता स्वपुत्रस्य भविष्यतः चिन्तां करोति । अमङ्गलमाशङ्कते।
सूत्रधारः -- कथं तत् ? पार्श्वे स्थित्वा शृणुवः । (तौ निष्क्रामतः)
जीवमाता (प्रविशन्ती) -- हा हन्त! किं भविष्यति मम पुत्रः ?
सखी – अरी भगिनि ! तव मुखं कथं म्लानं दृश्यते ।
जीवमाता (विलपन्ती) -- आं आं, सखि ! पुत्रव्यवहारतः अतीवचिन्तितास्मि
। हा हन्त! हा हन्त! दुर्भागः पितृविहीनो बालको मम किं भविष्यति ?
सखी – कथं तत् ?
जीवमाता -- मम श्वशुरदेवस्य कुमारदेवस्य त्रयः तनयाः आसन् । ते रूपसनातनवल्लभ नामानः । राजसेवायां सुप्रतिष्ठिता अपि प्रचुरधनैश्वर्याधिकारिणोऽपि च, चैतन्यदेवस्य प्रभावे संसारे निर्ममा भूत्वा वृन्दावनं गतवन्तः। रूपसनातनौ संसारादिं त्यक्त्वा प्रेमबातुलाः अभवतम् ।
सखी – ततस्ततः ?
जीवमाता -- तयोः कनिष्ठभ्राता मम पतिदेवता । गङ्गातीरे देहं अस्मान् च परित्यज्य परलोकं गतवान् । अहं सहायविहीना ! एकाकिनी स्वपुत्रं जीवं लालयामि, तथापि स गृहं मनसि कर्तुं न प्रभवति ।
सखी – कथं ? किं वृत्तम् ?
जीवमाता – शैशवात् स कृष्णबलराममूर्ती
सेवते । अन्येषां बालकानां सङ्गे न खेलति । केवलं भागवतादि धर्म पुस्तकानि पठति । न खादति । खादितुं नेच्छति । सदा प्रलपति । कदापि “हा हा रूप ! हा हा सनातन” इति पितृव्यद्वयस्य
नामनी फुत्करोति । कदापि “हा गौर हा निताइ” इति चीत्करोति ।
अन्या काचित् – तस्मिन् संसारविरक्तिरजायत इति भाति । गृहे न स्थास्यति
। अहं तं कुत्रापि रहसि रुदन्तं नेत्रजले भासमानं दृष्टवती ।
सखी – तव सर्वा भूसम्पत्तिर्विनाक्ष्यति। तव अन्यः कोऽपि नास्ति। पुत्रस्य धर्मप्रधानः स्वमातू रक्षणम्। पुत्रस्य
धर्मं न रक्षिष्यति ? छि छि छि |
अन्या काचित् – सत्यमेतत् । भगवत्कृपा अवश्यं तदुपरि वर्षति । सदा कृष्णकथासागरे भासते
। अल्पवयसि तस्यापि एतावती भक्तिर्दृश्यते ॥ स संसारे न स्थातुं प्रभविष्यति
।
सखी -- भगिनि, तस्य विवाहव्यवस्थां कुरु । काचित्
सुन्दरी सती कन्या तं रिज्वीकरिष्यति ।।
माता -- स्वभावं दूरीकर्तुं कः प्रभवति ?
यथोक्तं – स्वभावस्तु सर्वदा
प्रवर्तते ।
सखी – स संसारविरक्तो भवति । गृहैश्वर्यात् उदासीनो
भवति । महाप्रभोः कृपा तदुपरि वर्षति । गृहे न स्थास्यति इति मे भाति ।
माता – तस्य विवाहव्यवस्था करणीया । तर्हि स स्थास्यति
। अत्र बह्व्यः सुन्दर्यः कन्याः वर्तन्ते । तासां एकया कयापि विवाहितो भूत्वा
सुखी भविष्यति । संसारकर्तव्यानि पालयिष्यति । अस्मान् गृहलोकान् रक्षिष्यति ।
जीवगोस्वामी (प्रविश्य, मातृतत्सख्यौ दृष्ट्वा समीपं आगम्य) -- मातः ! पुनः पुनः विवहनस्य वार्तां वदसि । तुभ्यं शपामि -- अहं कस्याश्चित् पाणिग्रहणं न करिष्यामि । मम पितृव्यद्वयः, मम पिता च, सर्वे चैतन्य महाप्रभोः सेवायां व्यापृताः अभवन् । अहमपि शास्त्राण्यधीत्य चैतन्यस्य प्रेमधर्मं प्रचारयिष्यामि । गृहे न स्थास्यामि ।
माता -- स्वमातुः प्रति एतादृशी निष्ठुरता। एतावती निर्ममता। त्वयि गृहं त्यक्तवति अस्माकं संसारं को विधास्यति ?
जीवः -- भगवान् अवश्यं रक्षिष्यति...
(ता निःसरन्ति, स परिक्रामति। निर्विण्णो भूत्वा श्रीजीवनिर्जनस्थाने गत्वा अचिन्तयत् ।)
जीवः -- किं करोमि ? किन्तु अहं पितृव्यचरणाननुकर्तुं शक्नोमि ? एकाकिनीं मम मातरं वा त्यक्तुं
कथं शक्ष्यामि ? एताभिः चिन्ताभिः मम चित्तं
घूर्णति । विश्रामं करवाणि । [शयनाभिनयं करोति]
(सङ्कीर्तनरतौ चैतन्यनित्यानन्दौ हठात् आविर्भवतः ।)
चैतन्यः -- हे जीव ! मा शुचः । तव
सर्वं मङ्गलं भविष्यति । याहि, वृन्दावनमातिष्ठ । तत्र रूपसनातनौ त्वां सर्वान् वैष्णवसिद्धान्तान्
शिक्षयिष्यतः ।
नित्यानन्दः -- गच्छ, न्यायवेदान्तादिशास्त्राणि अध्येहि । वृन्दावने श्रीश्रीराधामाधवौ अवश्यं त्वयि
कृपां करिष्यतः ।
जीवः -- मम माता दुःखिनी भविष्यति । ताम् दुःखीकर्तुं न पारयामि ।
नित्यानन्दः -- मा चिन्तय । यस्य भक्तस्य
विशुद्धप्रेमास्ति, तस्य पितरमातरौ
पूर्वपुरुषा अपि सर्वे उद्ध्रीयन्ते ।
चैतन्यः -- राधाकृष्णचरणप्राप्तेः सर्वं
जगत् मङ्गलमयं भवति । "मद्भक्तियुक्तो भुवनं पुनाति ।"
जीवः -- तां प्रति मम न किमपि कर्तव्यं, न कोऽपि ऋणः ?
नित्यानन्दः -- भगवान् स्वयं भागवते वदति
देवर्षिभूताप्तनॄणां पितॄणां नायं किङ्करो नायम्
ऋणी च राजन्
सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य
कर्तम्
विश्वासं कृत्वा
आवयोरुपदेशं आचर । अहं तव मार्गं प्रशस्तं निष्कण्टकं च करिष्यामि।
जीवः -- यथाज्ञापयथः तथा करवाणि । (स प्रणमति। तौ अन्तर्दधतः।)
जीवः (समन्तादवलोक्य) -- सर्वे निद्रति। अस्मिन्
मुहूर्ते अदृश्यः पलायनं करोमि (गायन् गायन्)
एतां
समास्थाय परात्मनिष्ठाम् अध्यासितां पूर्वतमैर्महद्भिः |
अहं
तरिष्यामि दुरन्तपारं तमो
मुकुन्दाङ्घ्रिनिषेवयैव ||
इति जीवे दया नाटके गृहत्यागो नाम
प्रथमोऽङ्कः समाप्तः।
No comments:
Post a Comment